पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ आनन्दगिरिकृतढीकासंवलितशांकरभाष्यसमेता- [६ पछयायें तद्भावेनैव पुनराभवन्ति पुनः सत आगत्य व्याघ्रो वा सिँहो वा वृको वा वराहो वा फीटो वा पतङ्गने वा दंशो वा मशको वा यद्यत्पूर्वमिह लोके भवन्ति चभूवुरित्यर्थः । तदेव पुनरागत्य भवन्ति युगसहस्रकोट्यन्तरिताऽपि संसारिणो जन्तोर्या पुरा भाविता वासना सा न नश्यतीत्यर्थः । “यथामज्ञं हि संभवा: " इति श्रुत्यन्तरात् ॥ ३ ॥ रसानामचेतनत्वेन विवेकानर्हत्वात्कथं चेतैनावतामेवं दृष्टान्तः स्यादित्याशङ्कयाऽऽहं- यस्माच्चेति । एवं यथोक्तरसदृष्टान्तवशेनेति यावत् । चेतनानामपि सुषुप्यादौ जाड्या- स्कन्दिततया रसतुल्यत्वात्तेषां विवेकानर्हावस्थापत्तिमात्रे प्रकृतमुदाहरणमविरुद्धमिति भावः । सता संपन्नानामपि तत्स्यादित्याशङ्कयाऽऽह – संसारिण इति ।। ३ ।। स य एषोऽणिमैतदात्म्यमिद सर्व तत्सत्व स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ४ ॥ इति षष्ठाध्यायस्य नवमः खण्डः ॥ ९ ॥ ता: मजा यस्मिन्प्रविश्य पुनराविर्भवन्ति । ये त्वितोऽन्ये सत्सत्यात्माभि- संघा यमणुभावं सदात्मानं प्रविश्य नाऽऽवर्तन्ते स य एषोऽणियेत्यादि व्याख्या- तम् । यथा लोके स्वकये गृहे सुप्त उत्थाय ग्रामान्तरं गतो जानाति स्वगृहा- दागतोऽस्मीत्येवं सत आगतोऽस्मीति च जन्तूनां कस्माद्विज्ञानं न भवतीति भूय एव मा भगवान्विज्ञापयत्वित्युक्तस्तथा सोम्येति होवाच पिता ॥ ४ ॥ इति षष्टाध्यायस्य नवमः खण्डः ॥ ९ ॥ स य एषोऽणिमेत्याचवतारयति -- ताः प्रजा इति । इतः सविज्ञानरहितेभ्य: सका- शादिति यावत् | यमणुभावमिति तच्छब्दोऽध्याहर्तव्यः । प्रश्नान्तरं दृष्टान्सचलादुत्थाप- यति — यथेति । सतोऽहभागतोऽस्मीस्युत्थितस्प ज्ञानाभा दृष्टान्तेजोपपादयितुमुत्तरप्रस्थ मुत्थापयति -- इत्युक्त इति ॥ ४ ॥ इति षष्टाध्यायस्य नवमः खण्डः ॥ ९ ॥ १ ङ. ढ, °र्थः । ताः । २ ख. घ. ञ, °भव इ° | ३ ख. छ. ञ. ण. 'तनवः । ४ ख. ङ, ञ, सौम्येति । ५ ख, ञ. सौम्पेति ।