पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दलमः खण्डः १० ] छान्दोग्योपनिषत् ( अथ षष्ठाध्यायस्य दशमः खण्डः । ) इमाः सोम्य नयः पुरस्तात्प्राच्पः स्यन्दन्ते पश्चा- कमतीच्यस्ताः समुद्रात्समुद्र मेवा पियन्ति स समुद्र एव भवति ता यथा तत्र न विदुरियमहमस्मीयम- इमस्मीति ॥ १ ॥ शृणु तत्र दृष्टान्तं यथा सौम्येमा नयो गङ्गायाः पुरस्तात्पूर्वी दिशं प्रति माच्यः मागञ्चनाः स्यन्दन्ते स्रवन्ति । पश्चात्मतीचीं दिशं प्रति सिन्ध्वाद्याः मतीची मञ्चन्ति गच्छन्तीति प्रतीच्यस्ताः समुद्रादम्भोनिधे र्ज लधरैराक्षिप्ताः पुनर्दृष्टिरूपेण पतिता गङ्गादिनदीरूपिण्यः पुनः समुद्रमम्भोनिश्चिमेवा पियन्ति स समुद्र एव भवति ता नत्रो यथा तब समुद्रे समुद्रात्मनेकतां गता न विदुर्न जानन्तीयं गङ्गाऽहमस्मयं यमुनाऽहमस्मीतीयं मह्यहमस्मीति च ॥ १ ॥ आगमनावध्यपरिज्ञावं तत्रेत्युक्तम् ॥ १ ॥ एवमेव खलु सोम्पेमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति त इह व्याघ्रो वा सिहो वा वृको वा बराहो वा कीटो वा पतको वा दशो वा मशको वा यवद्भवन्ति तदाभवन्ति ॥ २॥ स य एषोऽणिमैतदात्म्यमिद५ सर्व तत्सत्य स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भग- बान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ इति षष्ठाध्यायस्य दशमः खण्डः ॥ १० ॥ १ ख. झ ञ. सौम्य | २ क. ख. ञ ट वन्ति ता । ३ ख. ङ. ञ. सौम्पेमा । ४ घ. ट. उ, "न्ति समु° । ५ क. 'मुद्रा ए° । ६ क ख. ञ. ट. ण. भवन्ति । ७ ख त्र. म. स्मीति | ८ ख. ञ. सौम्येमाः । १ ख ञ सौम्यति ।