पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः ३ ] वाम छान्दोग्योपनिषत् । इत्यध्यात्ममेतदात्मविषयमद्गीथोपासनमित्युक्तोपसंहारोऽपिदैवतोद्गीथोपासने क. क्ष्यमाणे बुद्धि समाधानार्थः ॥ १४ ॥ इति प्रथमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ - --- _भूमिकां कृत्वा विवक्षितमुपास्तिफलं कथयति-तथेति । दृष्टमिति विशेषणादभीष्टं फलान्तरमाचष्टे-माणेति । आत्मविषयं शरीरवर्तिप्राणगोचरमिति यावत् । उपसंहारस्य प्रयोजनमाह-अधिदैवेति ॥ १४ ॥ इति प्रथमाध्यायस्य द्वितीयः खण्डः ॥ २ ॥ (अथ प्रथमाध्यायस्य तृतीयः खण्डः) अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीतो- धन्वा एष प्रजाय उद्गायति । उद्य स्तमो भयमप- हन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १ ॥ अथानन्तरमधिदैवतं देवताविषयमुद्गीथोपासनं प्रस्तुतमित्यर्थोऽनेकधोपास्य- स्वादुद्गीथस्य य एवासावादित्यस्तपति तमुद्गीथमुपासीताऽऽदित्यदृष्टयोद्गीथमुपा- सीतेत्यर्थः । तमुद्गीथमित्युद्गीथशब्दोऽक्षरवाची सन्कथमादित्ये वर्तत इति, उच्यते-उद्यन्नद्गच्छन्वा एष प्रजाभ्यः प्रजार्थमुदायति प्रजानामनोत्पत्त्य. र्थम् । न ह्यनुद्यति तस्मिन्त्रीह्यादेः पक्तिः स्यादत उद्गायतीवोद्गायति, यथैवो. द्वाताऽन्नार्थमत उद्गीथः सवित्लेत्यर्थः । किंचौद्यन्नैशं तमस्तज्जं च भयं प्राणिना- मपहन्ति तमेवंगुणं सवितारं यो वेद सोऽपहन्ता नाशयिता ह वै भयस्य जन्म- मरणादिलक्षणस्याऽऽत्मनस्तमसश्च तत्कारणस्याज्ञानलक्षणस्य भवति ॥ १ ॥ ___ अनन्तरमाध्यात्मिकप्राणदृष्टयाद्गीथोपासनवचनादिति शेषः । किमिति देवताविषयमद्गीथो. पासनं प्रस्तूयते तत्राऽऽह--अनेकशेति । प्राणरूपेणाऽऽदित्यादिरूपेण चौद्गीथस्योपा. स्यत्वादेवताविषयतदुपास्तिप्रस्तावो युक्त एवेत्यर्थः । आदित्यादिमतयश्चेत्यादिन्यायेन वाक्यार्थं कथयति--आदित्यदृष्टयति । तमादित्यमुद्गीथमुपासीतेत्यादित्यशब्दस्योद्गीथशब्दस्य च सामानाधिकरण्यमयुक्तमुद्गीथशब्दस्य प्रकरणादक्षरवाचित्वादादित्यशब्दस्य च ज्योतिर्विषय- क. "देवतेति । २ ध. ङ. च. ति ब्रीह्या ।