पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् । अस्य यदेकार शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृती: यां जहात्यथ सा शुष्पति सर्व जहाति सर्वः शुष्यति ॥ २ ॥ एकदिशः खण्डः [११] शाखाया तस्यास्य यदेकां शास्त्रेां रोगग्ररतामाहतां वा जीवो जहात्युपसंहरति विमसृतमात्मांशम् । अथ सा शुष्पति | वाङ्मनःप्राणकरणग्रामा नुमविष्टो हि श्रीष इति तदुपसंहार उपसंहियते । जीवेन च माणयुक्तेन शितं पीतं च रसव गतं जीबेच्छरीरं वृक्षं वर्धयद्रसरूपेण जीवस्य सद्भावे लिङ्गं भवति । अशितपीताभ्यां हि देहे जीवस्तिष्ठति ते चाशितपीते जीवकर्मानुसारिणी इति । तस्यैकाङ्क्षवै- कल्यनिमित्तं कर्म यदीपस्थितं भवति तदा जीव एकां शाखां जहाति शास्त्राया आत्मानमुपसंहरति । अथ तदा सा शाखा शुष्यति । जीवस्थितिनिमित्तो रसो जीवकर्माक्षिप्त जीवोपसंहारे नतिष्ठति। रसापगमे च शाखा शोषमुपैति । तथा सर्व वृक्षमेव यदाऽयं जहाति तदा सर्वोऽपि वृक्षः शुष्यति । वृक्षस्य रसत्र- वणशोषणादिलिङ्गाज्जीववत्त्वं दृष्ट्वान्तश्रुतेश्च चेतनावन्तः स्थावरा इति बौद्धका- दिमतमचेतना: स्थावरा इत्येतदसार मिति दर्शितं भवति ॥ २ ॥ ३७१ - ननु रोगग्रस्तायां वातोपहतायां वा शाखायां प्राणोपसंहारेऽपि कुतो भीवोपसंहारः संभवति तत्राऽऽह — त्रागिति । ननु वृक्षे जीवस्य सद्भावे तत्रोपसंहारानुपसंहारौ वक्तव्यौ तन्त्र तस्य स तु कुतस्त्यमत आह - जीवेन चेति । रसरूपेण वर्धयदिति संबन्धः । वृक्षशरीरे जीवस्य सत्तेऽपि किमित्यसौ कदाचित्तदीयामेकां शाखां जहाती त्या शङ्कयाऽऽह- अशितेति । जीवोपसंहारेऽपि किमिति शाखा सुष्यति तत्राऽऽह - जीवस्थितीति । वैशे- जीवस्य स्थितिर्निमित्तं यस्येति विग्रहः । तथा शाखायामुक्तमकारेणेति यावत् । यत्तु पिकवैनाशिकाभ्यां स्थावराणां निर्जीवनावेतनत्वमुक्तं तदेतन्निरस्त मित्याह - वृक्षस्येति । आदिशब्दो वृद्धिमोद दिसंग्रहार्थः । स एष वृक्षो जीवनात्मनाऽनुप्रभूत इति दृष्टान्त श्रुतिः ॥ २ ॥ - एवमेव खलु सौम्य विद्धीति होवाच जीवा- wayamamy पेतं वाव किले म्रियते न जीवो त्रि- I २ क. ड. ढ. ° ववच्छ | ३ क. ग. ट. क्षं च व । ६ सञ. सौम्य | १ घ. च. ठ ड ढ. खां रुग्रा ४ उ. °णादादिम' | ५ क. ग. . °हारे कि