पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२ आनन्दगिरिकृतटीकासंवलिंतशांकरभाष्यसमेता- [ ६ षष्ठाभ्याये- यत इति स य एषोऽणिमैं तदात्म्यामेद सर्व तत्सत्य स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ - इति पष्ठाध्यायस्यैकादशः खण्डः ॥ १३ ॥ यथाऽस्मिन्वृक्षदृष्टान्ते दर्शितं जीवेन युक्तो वृक्षोऽशुष्को रसपानादियुक्तो जीवतीत्युच्यते तदपेतश्च म्रियत इत्युच्यते । एवमेव खलु सौम्य विद्धाति होवाच-जीवाषेतं जीववियुक्तं वाव किलेदं शरीरं म्रियते न जीवो म्रियत इति । कार्यशेषे च सुप्तोत्थितस्य ममेदं कार्यशेषम परिसमाप्तमिति स्मृत्वा समापनदर्श - नात् । जातमात्राणां च जन्तूनां स्तन्याभिलाषभयादिदर्शनाच्चातीत जन्मान्तरानु- भूतस्तन(न्य)पानदुःखःनुभवस्मृतिर्गम्यते । अग्निहोत्रादीनां च वैदिकानां कर्म- णामर्थवत्वान्न जीवो म्रियत इति । स य एषोऽणिमेत्यादि समानम् । कथं पुनरिदमत्यन्तस्थूलं पृथिव्यादि नामरूपवज्जगदत्यन्त सूक्ष्मात्सद्रूपानामरूपरहि- तात्सतो जायत इत्येतद्दृष्टान्तेन भूय एवमा भगवान्विज्ञापयत्विति । तथा सौम्येति होवाच पिता ॥ ३ ॥ Hom इति षष्टाध्यायस्यैकादशः खण्डः ॥ ११ ॥ श्रुतिदृष्टान्ते विवक्षितमंशमनूद्य दान्तिकमाह — यथेत्यादिना । जीवस्य सुषुते नाशाभावे हेत्वन्तरमाह–कार्यशेषे चेति । तस्मिन्सति सुषुतो भूत्वा पुनरुत्थितस्य कार्यस्य शेषोऽस्ति यस्मिन्कर्माणि तदिदं ममासमाप्तमिति स्मृत्वा तस्य समापनदर्शनान स्वापे जीवो नश्यतीत्यर्थः । मरणकाले तन्नाशाभावे हेत्वन्तरमाह - जातमात्राणामिति । आद्यश्चकारः समुच्चये द्वितीयोऽवधारणे । जीवस्य प्रलयादावविनाशे कारणान्तरमाह - अग्निहोत्रादीनामिति । इतिशब्दो जीवस्य नित्यत्वोपसंहारार्थः । यदुक्तं सन्मूलः सोम्पे- त्यादि तत्र चोदयति—कथं पुनरिति । विलक्षणयोर्न कार्यकारणत्वमिति शङ्कमानं प्रतिबोधयितुमुत्तरं वाक्यमुपादत्ते – तथेति ॥ ३ ॥ इति षष्टाध्यायस्यैकादशः खण्डः ॥ ११ ॥ १ ख ग सौम्पेति । २ ख. ङ. सौम्य | ३ ख. ङ. ग. सौम्येति । ४ ग. °लाः सौम्ये' । ५ क. ग. ट. "तस्खा |