पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादश: खण्ड: १२] छान्दोग्योपनिषत् । ( अर्थ षष्ठाध्यायस्य द्वादशः खण्डः । ) co ३७३ न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्वीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र पश्यसीति न किंचन भगव इति ॥ १ ॥ चकार यद्येतत्प्रत्यक्षीकर्तुमिच्छस्यतोऽस्मान्महतो न्यग्रोधात्फलमेकमाहरेत्युक्तस्तथा स इदं भगव उपहृतं फलमिति दर्शितवन्तं प्रत्याह फलं भिन्द्वीति । भिन्नमित्याहेतरः | तमाह पिता किमत्र पश्यसीत्युक्त आहाव्योऽ- णुतरा इवेमा धाना बीजानि पश्यामि भगव इति । आसां धानानामेकां धाना- मङ्ग हे वत्स भिन्द्वीत्युक्त आह भिन्ना भगव इति । यदि भिन्ना धाना तस्यां भिन्नायां किं पश्यसीत्युक्त आह न किंचन पश्यामि भगव इति ॥ १ ॥ स्थूलस्य कार्यस्य सूक्ष्ममुख्यकारणत्वमेतदित्युच्यते । अस्य सोम्य महतो वृक्षस्येति प्रकृतं वृक्षं परामृशति — अत इति ॥ १ ॥ त५ होवाच यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महींन्यग्रोधस्तिष्ठति श्रद्धत्स्व सोम्येति तं पुत्रं होवाच वटधानायां भिन्नायां यं वटबीजाणिमानं हे सोम्यैतं न निभालपसे न पश्यसि । तथाऽप्येतस्य वै किले सोम्यैष महीन्यग्रोधो बीज- स्याणिम्नः सूक्ष्मस्या दृश्यमानस्य कार्यभूतः स्थूलशाखा स्कैन्ध फलपलाशवांस्ति- प्रत्युत्पन्नः क्षतिष्ठीत बोच्छन्दोऽध्याहार्योऽतः श्रद्धत्स्व सौम्य सत एवा- णिन्नः स्थूलं नामरूपादिमत्कार्य जगदुत्पन्न मिति । यद्यपि न्यायागमाभ्यां १ क. उपाहृतं । २ क. ग. ट. सूक्ष्मं मु° | ३ञ सौम्य | ४ ख घ ङ. ञ, वै सौम्यै॰ । ५ ख. घ. अ. वै सौम्यै । ६ ख. झ. उ. 'हान्न्ययो । ७ ख ञ सौम्येति । ८ ख. ङ. ञ. हे सौम्यै” । ९ ख. ङ. य. 'ल सौम्यै' | १० ङ. ठ. ण. 'हान्न्यग्रो' । ११ ख. ग. ६. च. ञ. ठ. ड. स्थूल: शा° | १२ ट. स्कन्धाकुरकुसुमफ° | १३ ख. ङ. ढ, ण. ति चोच्छ° । १४ ख. ङ. ञ सौम्य | श्री राम जान