पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ६ षष्ठाध्याये निर्धारितोऽर्थस्तथैवेत्य वगम्यते तथाऽप्यत्यन्तमूक्ष्मे वर्येषु बाह्यविषयासक्तमनसः स्वभावप्रवृत्तस्यासत्यां गुरुतरायां श्रद्धयां दुगमत्वं स्यादित्याह श्रद्धत्स्वेति । श्रद्धाय तु सत्यां मनसः समाधानं बुभुत्सितेऽर्थे भवेत्ततश्च तदर्थावगतिः । " अन्यत्रमंना अभवम् " इत्यादिश्रुतेः || २ || M यमेतमणिमनं न पश्यस्थे॑तस्याणिम्नो बीजंस्येति संबन्धः । तथापीत्यत्यन्ताणुत्वाद- दर्शनेऽर्प.त्यर्थः । अत्पन्तसूक्ष्माही जादत्यन्तस्थूलस्प वृक्षस्योत्पत्त्युपलम्भोऽतःशब्दार्थः । सन्मूलौः सोभ्येत्यादिश्रुत्या दृश्यते स्विति न्यायेन च जगतः सःकार्यध्वे सिद्धे श्रद्धामन्तरे- णापि तन्निर्णयसंभवाकिमिति श्वेतकेतुः श्रद्भूत्स्वेति पित्रा नियुज्यते तत्राऽऽह -- यद्यपीति सत्यामपि श्रद्धायां कथं बाह्यविषयासक्तमनसोऽत्यन्तसूक्ष्मेष्वर्थेष्ववगमः स्यादित्याशङ्कयाऽऽह- श्रद्धायां त्विति । मनःसमाधानवशाबुभु सितस्यार्थस्या व गतिरित्यत्र बृहदारण्यकश्रुतिं संवादयति - अन्यत्रेति ॥ २ ॥ । स य एषोऽणिमैतदात्म्यमिद‍ सर्वं तत्सत्यक्ष स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एवं मा भग- वान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ २ ॥ इति षष्टाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ स य इत्याद्युक्तार्थम् । यदि तत्सज्जगतो मूलं कस्मान्नोपलभ्यत इत्येतद्- दृष्टान्तेन मा भगवान्भूय एव विज्ञापयत्विति । तथा सोम्येति होवाच पिता ॥ ३ ॥ इति षष्टाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ प्रत्यक्षतोऽनुपलभ्यमानत्वान्नास्तीति मन्वानः शङ्कते - यदीति । अनुपलभ्यमान स्यापि सत्त्वमाशङ्कयांऽऽह---इत्येतदिति । अप्रत्यक्षस्यापि जगन्मूखस्यास्तित्वं प्रतिपाद- यितुमुत्तरग्रंन्धमत्रतारयति--तथेति ॥ ३ ॥ इति षष्ठाध्यायस्य द्वादशः खण्डः ॥ १२ ॥ ( अथ षष्टाध्यायस्य त्रयोदशः खण्डः । ) लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा १ ञ. °लाः सौम्पे' | २ ख. ङ. ञ सौम्पेति । ३ ख. ङ. ञ. सौम्पेति ।