पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोदशः खण्डः १३] छान्दोग्योपनिषत् | इति स तथा चकार त५ होवाच यद्दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ १ ॥ विद्यमानमपि वस्तु नोपलभ्यते प्रकारान्तरेण तूपलभ्यत इति शृण्वत्र दृष्टा- न्तम् । यदि चेममर्थं प्रत्यक्षीकर्तुमिच्छसि पिण्डरूप लवणमेत घटा दावुद केऽत्र- घाय प्रक्षिप्याथ मा मां श्वः प्रातरुपसदिया उपगच्छेथा इति । स ह पित्रोक्त- मर्थे प्रत्यक्षीकर्तुमिच्छंस्तथा चकार । तं होवांच परेयुः प्रातर्यल्लत्रणं दोषा रात्रा- बुदवाया निक्षिप्तवानस्य हे वन्स तदाहरेत्युक्तवल्लरणमाजिही पुई किलावमृश्योदकेन विवेद न विज्ञात्वान्यथा तल्लवणं विद्यमानमेव रुदप्सु लीनं संश्लिष्टमभूत् ॥ १ ॥ नोपलभ्यते स्वेन प्रकारेणेति शेषः । इतीममर्थ प्रत्यक्षीकर्तुं यदीच्छसि तर्हि दृष्टान्तमंत्र शृण्विति योजना । रात्रेरत्ययानन्तर्यमथशब्दार्थः । जगन्मूलं स्वतोऽप्रत्यक्षमपि प्रत्यक्षमुपा- यान्तरेणेति, पित्रोक्तोऽर्थस्तं प्रत्यक्षीचिकीर्षुर्घटादावुद के पिण्डरूपं लवणं रात्रौ प्रक्षेप्य तदत्ययानन्तरं प्रातःकाले पितृमीपं श्वेतकेतुर्मतबानियाह – स होत । यथा तपिण्डरूपं लेवणं प्रक्षेपामागभूत्तथा न विज्ञःतवानिति संबन्धः । उदके प्रक्षिप्तं लवणं विमृश्यापि नै विज्ञायते चेदसदेव तर्हि तदित्याशङ्कयाऽऽह~-विद्यमानमेवेति । किमिति तर्हि चक्षुषा स्पर्शेन वा नोपलभ्यते तत्राऽऽह-- -अस्विति ॥ १ ॥ यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमित्य न्तादाचामेति कथमिति लवणमित्यभिप्राँस्यैतदर्थ मोपसीदया इति तद् तथा चकार तच्छश्वत्संवर्तते त५ होवाचात्र वाव किल संत्सोम्य न निभालय- सेऽत्रैव किलेति ॥ २ ॥ यथा विलीनं लवणं न देत्थ तथाऽपि तच्चक्षुषा स्पर्शनेन च पिण्डरूपं लव- णमगृह्यमाणं विद्यत एवाप्सूपलभ्यते चोपायान्तरेणेत्येतत्पुत्रं प्रत्याययितुमिच्छ- Z ३७५ 34 -१ ठ. 'वाचाप' | २ ख. घ. च. ञ ड ढ ण त । ३ क. ख. ग. ह. ञ. ट. ढ ण. 'नमपि स° 1 ४ क. ग. टः न श° 1.५.ख. ञ. ण. निमिति । ६.क. ज. पाश्चैनद ख. प्राश्येत° । ग. ङ. झ ट ठ, त. थ. प्राप्स्यै| ७ ख ञः सत्सौम्य