पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतटीकासंचलितशांकरभाष्यसमेता-[ ६ षाय्यावे स्योदकस्यान्तादुपरि गृहीत्वाऽऽचामेत्युक्त्वा पुत्रं तथाकृतवन्तमुवाच कथमितीतर आह लवणं स्वादुत इति । तथा मध्यादुदकस्य गृहीत्वाऽऽचामेति कथमिति लवणमिति । तथाऽन्तादवोदेशाहीत्वाऽऽचामेति कथमिति लवण- मिति । यद्येवमभिमांस्य परित्यज्यैतदुदकमाचम्याथ मोपसीदथा इति तद्ध तथा चकार लवणं परित्यज्य पितृसमीपमाजगामेत्यर्थ इदं वचनं ब्रुवंस्तल्लक्षणं तस्मिन्नेवोदके यन्मया रात्रौ क्षिप्तं शश्वन्नित्यं संवर्तते विद्यमानमेव सत्सभ्यग्व- र्त्तते । इत्येवमुक्तवन्तं तं होवाच पिता । यथेदं लवणं दर्शनस्पर्शनाभ्यां पूर्व गृहीतं पुनरुदके विलीनं ताभ्यामगृह्यमाणमपि विद्यत एवोपायान्तरेण जियो- पलभ्यमानत्वात् । एवमेवात्रैवास्मिन्नेव तेजोबन्नादिकाँर्ये शुङ्गे देहे । वात्र किलेत्याचार्योपदेश स्मरणनदर्शनार्थी । सत्तेजोवन्नादिशुद्ध कारणं वटवीजाणि. मवद्विद्यमानमेवेन्द्रियैर्नोपलभसे न निभालयसे । यथाऽत्रैवोदके दर्शनस्पर्शना- भ्यामनुपलभ्यमानं लवणं विद्यमानमेव जिह्वयोपलब्धवानसि । एवमेवात्रैव किल विद्यमानं सज्जगन्मूलपुपायान्तरेण लवणाणिमवदुपलप्स्यस इति वाक्य- 1 शेषः ॥ २ ॥ ३७६ कथं तर्हि तस्य विद्यमानत्वमवगतं तत्राऽऽह - यथेति । यद्यपि पिण्डरूपं लवणमुद के क्षिप्तमवमृश्यापि चक्षुस्पर्शनाभ्यां न त्वं वेत्थ तथाऽपि तत्तत्र विद्यत एव यतस्ताभ्यामगृह्य. माणमपि तत्रोपायान्तरेणोपलभ्यत इत्येतमर्धं पुत्रं प्रत्याययितुमुत्तरं वाक्यमित्यर्थः । यथा- शब्दो यद्यपीत्यर्थे । तद्धेयादि व्याचष्टे - लवणमिति | संवर्तत इतीदं वचनं ब्रुवन्नाज- गामेति संबन्धः । दृष्टान्तमनूय दाष्टतिमाह - इत्येवमुक्त वन्तमित्यादिना | सतो जगन्मूलस्यास्मिन्देहे सत्त्रं त्वया कथमबगतमत आह-वावेति । अत्र वावेत्यादिनाऽत्रैव किलेल्यस्य पौनरुक्त्यमाशङ्कयार्थविशेषं दर्शयति- यथाऽत्रेत्यादिना ॥ २ ॥ स य एषोऽणिमैतदात्म्यमिदर सर्वं तत्सत्य स आत्मा तत्त्वमसि श्वेतकतो इति भूय एव मा भग- वान्विज्ञापयत्विति तथा सोम्पेति होवाच ॥ ३ ॥ इति षष्ठाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ १ ख. ङ. ञ. प. माश्य प° । २ ख. ञ. ण. व तत्स' । ३. घ. ङ. च. ट. उ. ड. °कार्यशु' । ४ ख. छ. य. ण. 'यदपि' | ५ ख. ग. सौम्यति ।