पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः ख 'छान्दोग्योपनिषत् | सदात्मस्वरूपसंपत्तेरिति वाक्यशेषः । क्रियान्कालश्चिरमित्युच्यते यावन्न विमो- क्ष्ये न विमोक्ष्यत इत्येतत्पुरुपव्यत्ययेन | सामर्थ्यात् । येन कर्मणा शरीरमा- रब्धं तस्योपभोगेन क्षयादेहपातो यावदित्यर्थः । अथ तदैव सत्संपत्स्ये संप त्स्यत इति पूर्ववत् । न हि देहमोक्षस्य तत्संपत्तेश्च कालभेदोऽस्ति येनाथशब्द आनन्तर्यार्थः स्यात् ।

१४ ]

यथाबन्धनं वन्धनमनुसृत्येति यावत् । पण्डितो मेधावीतिविशेषणद्वयस्य व्यवच्छेद्यं दर्शयति — नेतर इति । व्याख्यातं दृष्टान्तं सोपस्करमनुवदति – यथेत्यादिना ! दान्तिकं व्याचष्टे – एवमिति | आदिशब्देन वाय्वाकाशौ गृहोते । मयैड्विकारार्थः । देहारण्यस्यानेका नर्थसंकटत्वं कथयति -- बातति । शीतोष्णादीत्यादिपदेन रागद्वेषादि द्वंद्वे गृहीतं तेनानेकेन द्वंद्वेन जातं सुखं दुखं च तदुपेतमिदं देहारम्पमित्येतत् । बन्ध्यात्या- दिशब्दो मित्रक्षेत्र दिविषयः । पुण्यापुण्याद त्यादिपदमविद्या कामवासना संग्रहार्थम् । देहा- रणं प्रविष्टस्य जन्तोर्विक्रोशनप्रकारं सकारणं सूचयति - अहमित्यादिना । तस्य सदा दुःखित्वशङ्कां वारयति— कथंचिदेवेति । आपाततो ब्रह्मवित्वमात्रेण मुक्तबन्धनत्वा- सिद्धेर्विशिनष्टि - ब्रह्मिष्ठमिति । यदाऽऽसादयति तदा सुखी स्यादित्युत्तरत्र संबन्धः । संसारविषयं दोषदर्शनं तस्य क्षयिष्णुवा दिज्ञानं तस्य मार्गो विवेकः स यस्याऽऽचार्येण दर्शितो विद्यातः स दर्शित संसारविषयदोष दर्शन मार्ग: । आचार्येण साधनचतुष्टयसंपन्नस्या- धिकारिणः संसारान्मोक्षितत्वप्रकारं दर्शयति-- नासीति । यद्यपि वाक्यार्थज्ञाने वाक्य- मेवोपायस्तथाऽप्याचार्योपदेश जनिता तिशयदर्शनात्तदुपदेशोऽवगत्यन्तवाक्यार्थज्ञ ने प्रथमो हेतुरुपदेशमात्राद्यस्य नावगत्यन्तवाक्यार्थधीस्तस्य प्रमाणाद्यसंभावनानिरसनसमर्थौ विचारो मेधाविशब्देन विहितस्तस्य प्रज्ञातिशयवति प्रयोग दिति भावः । पुरुषव्यत्यये हेतुमाह -- सामर्थ्यादिति । ।। अस्मद्युपपदे ऽसत्युत्तमपुरुषप्रयोगानुपपत्तेर्दे हा दिस्थित्यनुपपत्तेर्वेत्यर्थः । याव- दित्यादिवाक्यार्थं स्पष्टयति - - येनेति । पूर्ववदिति सामर्थ्यात्पुरुषव्यत्ययं लक्षयति । अथ- शब्दस्य सत्संपत्तेर्देहमोक्षादानन्तर्यगर्थो भविष्यतीसाशङ्कयाह -- न हीति । । ननु यथा सद्विज्ञानानन्तरमेव देहपातः सत्संपत्तिव न भवति कर्मशेषत्रशा- तथाऽप्रवृत्तफलानि प्राग्ज्ञानोत्पचेर्जन्मान्तरसंचितान्यपि कर्माणि सन्तीति तत्फ- लोपभोगार्थं पतितेऽस्मिञ्शरीरान्तरमारब्धव्यम् | उत्पन्ने च ज्ञाने यावज्जीवं विहितानि प्रतिषिद्धानि वा कर्माणि करोत्येवेति तत्फलोपभोगार्थ चावश्यं शरी- १ ख. ञ. ण. ॰यट् विका' । २. म. ठ. 'चिदिवे' | ३ ख. ञ. विद्यते । ४ ख. ङ. ञ, ण. 'मयोगस्यानु ।