पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये-- वाद्भिन्नार्थयोश्च शब्दयोः सामानाधिकरण्यायोगादिति शङ्कते--तमुद्गीथमितीति । आदित्ये यद्यपि नोद्गीथशब्दो रूढ्या वर्तितुमर्हति तथाऽपि गौण्या च तत्र तत्र वृत्तेः सामानाधिकरण्यसिद्धिरित्युत्तरमाह--उच्यत इति । प्रजार्थमुद्गायतीत्येतदेव स्पष्टयति- मजानामिति । अन्नोत्पत्यर्थमुद्गायतीति पूर्वेण संबन्धः । तदेव व्यतिरेकद्वारा साधयति- न हीति । आदित्यस्यान्नार्थमागानमतःशब्दार्थः । न तस्योद्न तुरिव प्रत्यक्षमुद्गानमुपलब्धत मित्याशङ्कयाऽऽह--उद्गायतीवेति । उपमामेवोपपादयति--यथेति । अथाऽऽत्मनेs. नाघमागायेदितिश्रुत्यन्तरे यथाऽन्नार्थमुद्गाताऽऽगायतीत्यवगतं तथाऽऽदित्योऽपि प्रजानाम- नार्थमागायतीत्यर्थः । उद्गीथशब्दस्याऽऽदित्ये संभवं परामृश्य फलितमाह--अत इति । आदित्यदृष्टये द्गीथोपासनमुपपाद्य फलोक्तिं व्याचष्टे--किंचेत्यादिना । एवंगुणं तमस्त- जभयनिवर्तकत्वगुणसहितमिति यावत् ॥ १ ॥ यद्यपि स्थानभेदात्माणादित्यो भिन्नाविव लक्ष्येते तथाऽपि न स तत्त्वभेद- स्तयोः । कथम्-- समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यारवर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ २ ॥ समान उ एव तुल्य एव प्राणः सवित्रा गुणतः सविता च प्राणेन । यस्मादुष्णोऽयं प्राण उष्णश्चासौ सविता । किंच स्वर इतीमं माणमाचक्षते कथयन्ति तथा स्वर इति प्रत्यास्वर इति चामुं सवितारम् । यस्मात्प्राणः स्वर- त्येव न पुनर्मतः प्रत्यागच्छति । सविता त्वस्तमित्वा पुनरप्यहन्यहनि प्रत्याग- च्छति । अतः प्रत्यास्वरोऽस्माद्गुणतो नामतश्च समानावितरेतरं प्राणादित्यौ। अतः सतत्त्वाभेदादेत प्राणमिमममुं चाऽऽदित्यमुद्गीथमुपासीत ।। २ ॥ नन्वयात्ममधिदैवतामिति स्थानभेदात्प्राणादित्ययोभिन्नत्वाद्भिन्नमेव तयोरुपासनमुपादेय- मत आह-यद्यपीति । प्राणादित्ययोः स्वरूपभेदाभावं प्रश्नपूर्वकं प्रतिपादयति-कथमि. त्यादिना । उशब्दोऽप्यर्थः स्थानभेदतो भेदमनुजानाति । गुणतः साम्यं साधयति- यस्मादिति । नामतः साम्यं संगिरते-किंचेति । सवितृवत्प्राणेऽपि प्रस्यास्वरशब्दप्र. वृत्तिमाशङ्कयाऽऽह--यस्मादिति । स्वरत्येव गच्छत्येवेति यावत् । तस्मिन्नेव स्थूलदेहे न प्रत्यागच्छति तस्मात्प्राणे स्वरशब्दप्रवृत्तिरेवेत्यर्थः । सवितर्यपि तर्हि तच्छब्दप्रवृत्तिरेवे.