पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दश: खण्ड: १४] छान्दोग्योपनिषत् | "चास्य कर्माणि " इति चाऽऽथर्दणे । अतो ब्रह्मविदो जीवनादिप्रयोजनाभा- वेऽपि मवृतफलानां वर्षणामवश्यमेव फलोपभोगः स्यादिति मुक्तेपुवत्तस्य ताय- देव चिरमिति युक्तमेवोत्क्तमिति यथोक्तदोषचोदनानुपपत्तिः । ज्ञानोत्पत्तेरू च ब्रह्मविदः कर्माभावमचोचाम ब्रह्मसंस्थोऽमृतत्वमेतीत्यत्र तच्च स्मर्तुमर्हसि ॥ २ ॥ श्रुत्यन्तरमाश्चित्य शङ्कते– नन्विति । तथा चान. रब्वकर्मवशाद्विदुषोऽपि देहान्तर. मारब्धव्यमिति शेषः । तत्प्रामाण्यमङ्गी करोति -- सत्यमेवमिति । तर्हि विदुषोऽपि देहान्तरमनारचकर्मवशादारब्धव्यं नेत्याह — तथाऽपीति । विशेषमेचाऽऽकाङ्क्षाद्वारा विशदयति – ब.थमित्यादिना । प्रवृत्तफलत्वमेव फुटयति- यैरिति । उक्तमर्थं दृष्टान्तेन स्पष्टयति- यथेति । लक्ष्यस्य वेधो भेदनं तत्समकालमेवेष्वादेरूध्वं गतिप्रयोजनं नास्तीति नस्थितिक्ष्यमुद्दिश्य मुक्तस्य तस्याऽऽरब्धवेगस्याप्रतिबन्धेन तदासादितस्य वेगक्षयादेव स्थितिर्दृष्टान्तवद्विद्यार्थे देहे विद्यालभानन्तरं फलं नास्तीति न कर्माणि निवर्तन्ते किंतु भोगक्षयादेव तस्य लव्धवृत्तिवादित्यर्थः । प्रवृत्तफलेभ्योऽप्रवृत्तफलानां कर्मणां विशेषमःह - अन्यानि विति । न चाप्रतिफलानां कर्मणां क्षयोऽप्रसिद्धस्तथाविधस्यैव पापस्य प्रायश्चिचेन प्रक्षयोपयोगा दिव्याह- - प्रायश्चित्तेनेवेति । आरब्धफल तिरिक्तानां कर्मणां ज्ञ.नाभिवृत्तः श्रुतिस्मृती दर्शयति - ज्ञानामिरित्यादिना । प्रवृत्ताप्रवृत्तफलेषु कर्मसु सिद्धे विशेषे फलितनाह – अत इति । जीवनादीत्यादिशब्दैन पुत्रकलेत्रादि गृह्यते। मुक्तःस्याप्रतिर्वैद्धेष्यदर्यावेगक्षयं गरिम्रैव्यव्यवहारवदारब्धकर्मणां फलभोगोऽवश्यमेव स्यादिति संबन्धः । यतश्चाऽऽरब्धकर्मणां भोगादेव क्षयैस्ततस्तस्येत्यादिना यच्चिरत्वं सत्संप - तरुक्तं तद्युक्त मेवेति कृत्वा यथोक्तस्य दोषस्य सद्य:शरीरपातादिलक्षणस्याऽऽशङ्कानुपपत्ति रिव्युपसंहरति-इतीति । आद्यस्थे िशब्दस्य तस्येत्यनेन संबन्धः । यत्तूपन्नेऽपि ज्ञाने याक जीव विहितानि करोत्येवेति तत्राऽऽह - - ज्ञानोत्पत्तेरिति ॥ २ ॥ - स य एषोऽणिमैतदात्म्पमिद सर्व तत्सत्य स आत्मा तत्वमसि श्वेतकेतो इति भूय एवं मा भगवा- विज्ञापयविति तथा सौम्येति होवाच ॥ ३ ॥ इति षष्टाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ १ क. ‘णां प्रक्ष’ । २ ख. छ. ज. लत्रद्रष्टव्यक्षेत्र | ३ क. ग.ट, ‘बन्धेषा॰ । ४ क, ख. छ. ञ. ण. 'यस्तस्ये' | ५ ख ङ. सौम्यो ।