पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ६ पष्टाध्याये- सय इत्यायुक्तार्थम् । आचार्यवान्विद्वान्येन क्रमेण सत्संपद्यते तं क्रम दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति । तथा सौम्येति होवाच ॥ ३ ॥ इति षष्टाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ ज्ञानस्य नाऽऽनर्थक्यमविद्यातत्कार्यनिवर्तनेन सत्संपत्ति हेतुत्वान्नाप्य नैकान्तिकफलत्वमन्त- रायाभावादित्युत्त.मिदानीमर्चिरादिमार्गप्रापया वाऽत्रैवाविद्यानिवृत्तिमात्रेण व संपत्तिरिति संदिहानः शङ्कते—आचार्यवानिति | संशयानस्य संबोधनार्थमुत्तरं वाक्यमवतारयति- तथेति ॥ ३ ॥ इति षष्टाध्यायस्य चतुर्दशः खण्डः ॥ १४ ॥ ( अथ षष्ठाध्यायस्य पञ्चदशः खण्डः ) पुरुष सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावत्र वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देव- तायां तावज्जानाति ॥ १ ॥ पुरुषं हे सोम्योतोपतापिनं ज्वरापतापवन्तं ज्ञातयो बान्धवाः परिवार्यो- पासते मुमूर्षु जानासि मां तव पितरं पुत्रं भ्रातरं वेति पृच्छन्तस्तस्य मुमूर्यो यविश्वात्मनसि संपद्यते मनः माणे माणस्तेजसि तेजः परस्यां देवतायामि त्येतदुक्तार्थम् ।। १ ।। ॥ १ ॥ अथ यदाऽस्य वाङ्मनसि संपयते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ २ ॥ संसारिणो यो मरणक्रमः स एवायं विदुषोऽपि सत्संपत्तिक्रम इत्ये- तदाह परस्यां देवतायां तेजसि संपन्नेऽथ न जानाति । अविद्वांस्तुं सत उत्थाय माग्भावितं व्याघ्रादिभावं देवमनुष्यादिभावं वा विशति । सम्यो । ४ क. १ ख. ङ. सौम्येति । २ ख. ञ. ५५ सौग्यो । ३ ख. ङञ ग. घ. ङ. ट. 'रं चेति । ५ क. घ. च. ठ. ढ. 'स्तु तत |