पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशः खण्डः १५] छान्दोग्योपनिषत् । ३८३ 9 विद्वांस्तु शास्त्राचार्योपदेशजनितज्ञानदीपप्रकाशितं समात्मानं प्रविश्य नाऽऽव- र्तत इत्येष सत्संपत्तिक्रमः | अन्ये तु सूर्धन्यया नाड्योत्क्रम्याऽऽदित्यादिवा- रेण सद्गच्छन्तीत्याहुस्तदसत् । देशकालनिमित्तफलाभिसंधानेन गमनदर्शनात् । न हि सदात्मैकत्वदर्शिनः सत्याभिसंघस्य देशकालनिमित्तफलाद्यनृताभिसंधि- रुपपद्यते । विरोधात् । अविद्या कामकर्मणां च गमननिमित्तानां सद्विज्ञानहुता- शनविष्लष्टत्वाद्गमनानुपपत्तिरेव । “ पर्याप्तकामस्य कृतात्मनस्त्विदैव सर्वे प्रवि लीयन्ति कामाः ” इत्याद्याथर्वणे । नदीसमुद्रदृष्टान्तश्रुत्तेश्च ॥ २ ॥ ४५ - नन्चेष संसारिणो मरणक्रमो नतु विदुषः सत्संपत्तिक्रमस्तयोर्विशेषस्य वक्तव्यात आह — संसारिण इति । करणोपरमे तेजः सहचरितभृतसूक्ष्मोपसंहारे च विशेषविज्ञा नाभावः समान एव ६िद्वदविदुषोत्यर्थः । कस्तर्हि तयोर्विशेषस्तत्राऽऽह-अविद्वानिति । सतस्तरमादज्ञानात्सदात्मनः सकाशादिति यावत् । एकदेशिमतमुःथाप्य प्रत्याचष्टे – अन्ये त्विति । भवतु विदुषोऽपि तदभिसंधिपूर्वकं गमनमित्याशङ्कयाऽऽह – नहीति | आदि शब्देन गत्यागती गृह्यते । सद्विज्ञानवतो गमनायोगे हेत्वन्तरमाह -- अविद्येति । विदु षोऽविद्याकमकर्मणामभावे प्रमाणमाह - - पर्याप्तकामस्येति । ननु कामप्रविलय एवःत्र श्रूयते नाविद्याकामकर्मनिर्मोकरतत्राऽऽह - - नदीत । यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रं प्रविशन्ति तथा विद्वान्नामरूपे हित्वा परं पुरुषमुपैतीतिदृष्टान्तपूर्विकायाः श्रुतेर्नाम रूपबीजावस्थाविद्याया लयो गम्यते नचाविद्या कामयोरभावे कर्मोपपत्तिस्तस्मान्न विदुषो गतिपूर्विका सत्संपत्तिरित्यर्थः ॥ २ ॥ - स य एषोऽणिमैतदात्म्यमिद५ सर्वं तत्सत्त्य स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भग- वान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ इति षष्ठाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ स य इत्यादि समानम् | यदि मरिष्यतो मुमुक्षतश्च तुल्या सत्संपत्तिस्तत्र विद्वान्सत्संपन्नो नाऽऽवर्तत आवर्तते त्वविद्वानित्यत्र कारणं दृष्टान्तेन भूय एव १ घ. उ. ड. 'दिव्यदा | २ क. ग. छ. ट. ति । तत° । ३ ख. ङ. सौम्येति । ४ क ग. ट. ड. °तैऽ,वे॰ । ड. ढ. °ते चावि॰ ।