पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशः खण्डः १६] छान्दोग्योपनिषत् | ३८७ महमस्मीति विज्ञाते मफेदमन्यदनेन कर्तव्यमिदं कृत्वाऽस्य फलं भोक्ष्य इति वा भेद विज्ञानमुपपद्यते । तस्मात्सत्सत्याद्वितीयात्मविज्ञाने विकारानृतजीवात्मविज्ञानं निवर्तत इति युक्तम् । ननु तत्त्वमसीत्यत्र त्वंशब्दवाच्येऽर्थे सद्बुद्धिरादिश्यते यथाऽऽदित्यमन आदिषु ब्रह्मादिबुद्धिः । यथा च लोके प्रतिमादिषु विष्ण्वादि- बुद्धिस्तद्वन्नतु सदैव त्वमिति यदि सदेव श्वेतकेतुः स्यात्कथमात्मानं न विजा- नीयाद्येन तस्मै तत्त्वमसीत्युपदिश्यते । न । आदित्यादिवाक्यवैलक्षण्यात् । आदित्यो ब्रह्मेत्यादावितिशब्दव्यवधानानं साक्षाद्ब्रह्मत्वं गम्यते । रूपादिम- त्त्वाच्चाऽऽदित्यादीनामाकाशमन सोश्चेति शब्दव्यवधानादेवाब्रह्मत्वमिह तु सत एवेह प्रवेशं दर्शयित्वा तत्त्वमसीति निरङ्कुशं सदात्मभावमुपदिशति । अज्ञातार्थप्रकाशनं मानफलं तस्य स्वप्रकाशे ब्रह्मणि नोपपत्तिरिति मन्वानश्चोदयति — किं पुनरिति । अत्राऽऽत्मनीति संबन्धः । स्वप्रकाशे प्रकाशातिशयस्य मानकलस्या- संभवॆऽऽ,ध्यस्तव्यावृत्तिस्तत्फलं भविष्यतीत्युत्तरमाह — कर्तृत्वति । अश्रुतस्य श्रवणाया- मतस्य मननायाविज्ञातस्य विज्ञानफलसिद्धये चाविकृतं यमर्थं त्वंपदवाच्यमवोचाम तस्य स्व.त्मनि क्रियाकर्तले फलभोक्तृत्वे च यन्मिथ्यैवाधिकृतत्वविज्ञानं तन्निवृत्तिर्मानफल मिति योजना। यथोक्तं मानफलमेव प्रपञ्चयति–त्राक्चेति । अहमेशत्राधिकृतश्चेति चकारस्य संबन्धः । तस्येत्यज्ञस्येल्यर्थः । विरोधमेत्र स्फोरयति — न हीति । प्रमाणफलमुपसंहरति- तस्मादिति । तत्त्वमसीति वाक्यं मुख्यैकत्व परमिति स्वपक्षमुक्त्वा परपक्षं शङ्कते— नन्विति । अव्यासिकमेकत्वं सामानाधिकरण्यालम्बन मिति स्वपक्षं दृष्टान्तेनोक्त्वा सिद्धान्तं दूषयति — नत्विति । श्वेतकेतोः सन्मात्रत्वे तदज्ञानायोगादसकृदुपदेश। - सिद्धिरित्यर्थः । किमया सवाक्यसामान्यादाध्यासिकमेकत्वं सामानाधिकरण्यालम्बनं किंवा मुख्यैकत्वे बाघकसद्भावादिति विकल्प्याऽऽद्यं दूश्यति — नेत्यादिनाँ । यथा लोके शुक्तिकां रजतमिति प्रत्येतीत्यादा वितिशब्दपरं सामानाधिकरणं न वस्तुनिष्ठ दृष्टं तथाऽ ध्यासवाक्यानामप्यादित्यो ऋहोत्यादेश इत्यादीन मितिशब्दपरसामानाधिकरण्यवशावस्तु- निष्ठत्वं गम्पते न तथा तत्त्वमसिवाक्यस्यावस्तुनिष्ठत्वनितिशब्दपरःवाभावेन सामानाधिकर- ण्यस्य स्वरूपपर्यवसायित्व निश्चयादित्यर्थः । इह विति मकारणोक्तिः । इह प्रवेश दर्शयि- त्वेत्यत्र तेजोबन्नमयं संघातमिहोत व्यपदिशति । १ ख. व. ञ. ण. नैन । २. | ३ ठ. दिश्येत । न । ४ क.ग. घ. च. ट. उ. ड. ढ. प. एव देह । ५ ख. छ. ञ. . "रसं | ६ ख. छ. ञ. ण. कृत्यं । ७ ख. छ. ञ. पण 'ना | लो । ८ ख. छ. ञ, ण, टंन ।