पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशः खण्डः १६] छान्दोग्योपनिषत् । - - केतोरनुपास्यत्वेन स्तुत्यसंभवेऽपि कर्तृत्वारकर्मसु तस्तावकत्वं वाक्पस्पायुक्तमित्यशङ्कय कर्मविध्य संनिधानात्सदात्मत्वमात्रप्रतीतेश्च नैवमित्याह – न चेति । विकल्पान्तरमुद्भाव- यति - ननु सदस्मीतीति । एक विज्ञानेन सर्वविज्ञानवचनविरोधान्न दृष्टिविधिपरत्वमित्यु- तरमाह — नन्विति । गौणपक्षेऽपि तुल्याइनुपपत्तिरित्यपेरर्थः । एकविज्ञानेन सर्वविज्ञा नश्रुर्तन विरोधोऽस्तीति पूर्ववाद्याह – नेति | नैदमेक विज्ञानॆन सर्वविज्ञानं दृष्टिविधिस्तुतिः कार्यकारणानन्यत्वादियुक्तिभिरुपपादितत्वाद्विधिपक्षे चासंभावनादिनिराससमर्थाचार्यवत्त्वोपदे- शानर्थक्यादॆ।पदेशिकज्ञःनमात्रेण विध्यनुष्ठानसिद्धेर्निध्यपेक्षितस्य च तेनैवाऽऽक्षेपादित्युत्तर- माह - नाऽऽचार्यवानिति । तदेव विवृणोति – यदि हीति । आचार्यवत्त्वमिति नोपदिश्यत इति शेषः । इतश्च नेदं वाक्यं दृष्टिविधिपरमेष्टव्यमित्याह - तस्यति । सदात्म त्वसाक्षात्कारादृतेऽपि सकृदनुष्टितपरोक्षबुद्धिमात्रान्मोक्षसंभवाद्विलम्बाभिधानमनर्थकमा पद्येत यथा सकृदनुष्ठितादपि यागाद्भवति स्वर्गस्तद्वदिह च चिरमिति क्षेपकरणं. मोक्षस्येति तस्मान्नेदं दृष्टिविधिपरमित्यर्थः । किच विधिवादिना प्रतीयमानेऽर्थे वाक्यस्याप्रामाण्यं विप र्यासक्षैणमनुत्पत्तिलक्षणं वा वाच्यं तदुभयं दुर्बचमित्याह – न चेति । तत्त्वमसीत्यधिका- रिणं प्रत्युक्ते सति प्रमाणभूतेन तेन वाक्येन जनिता साहमिति या तस्य बुद्धिस्तां निवर्तयितुं नाहं सदिति बलवती बुद्धिरुत्पन्नेति न शक्यते वक्तुं विवेकवतः श्रुतवाक्यस्य तथाविधबुद्धयनुत्पादान्नै चाधिकारिणः श्रुतवाक्यस्य सद्ब्रह्माहमिति बुद्धिर्नोत्पन्नेति वक्तुं शक्यमधिका.रेणः प्रमितिजनको वेद इति न्यायात् । न च भेदप्रत्ययो यथोक्ताया बुद्धे र्बाधकस्तस्य स्वाप्नभेदप्रत्ययवन्मिथ्यात्वानुमानादित्यर्थः । इतश्च तत्त्वमसिवाक्यं वस्तुपरमे. वेत्याह—सर्वोपनिषदिति | तत्त्वमसिवाक्यान्नायथार्था बुद्धिर्नापि न भवत्येव बुद्धिरि त्येतमर्थं दृष्टान्तेनाऽऽह- - यथेति । । ३८९ तक्तं सदात्मा सन्नात्मानं कथं न जानीयादिति । नासौ दोषः । कार्यकर- णसंघातव्यतिरिक्तोऽहं जीवः कर्ता भक्तियपि स्वभावतः प्राणिनां विज्ञानादर्श- नातिकमु तस्य सत्यविज्ञानम् । कथमेवं व्यतिरिक्त विज्ञाने सति तेषां कर्तृ- त्वादिविज्ञानं संभवति दृश्यते च । तद्वत्तस्यापि देहादिष्वात्मबुद्धित्वान्न स्यात्स- दात्मविज्ञानम् । तस्माद्विकारानृताधिकृतजीवात्मविज्ञाननिवर्तकमेवेदं वाक्यं तत्त्वमसीति सिद्धमिति ॥ ३ ॥ इति षष्टाध्यायस्य षोडशः खण्डः ॥ १६ ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीशंकरभगवतः कृतौ छान्दोग्योपनिषद्विवरणे षष्ठोऽध्यायः संपूर्णः ॥ ६॥ ५ ग. ट. नेयमे २ क. ख. छ. ञ. 'क्षणं 13 क. ग. ट. नवाऽधि । ४ क यदुके । ५ ञ. उ. ड. 'कार' | ६ च. 'दात्मावि' | ७ ख ञ. मनोविक घ ब. उ. ड. द. त्नत्वाव ।