पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [ ७ सप्तमाध्यायै - जीवे भासमानेऽप्यनबभासमानत्वान्न स्वभावो ब्रह्मेत्युक्तमन्द्य दूत्रयति--यक्षूक्त- मिति । लोकायतातिरिक्तानां देहादतिरेको जीवस्य स्वाभाविकोऽपि नावभासते तथा ब्रह्मभावोऽपि तस्यानाद्यनिर्वाच्याज्ञानसामर्थ्यादेव नावभासिष्यते । तथाच तस्मिन्भासमा नेऽप्यनत्रभासमानत्वान्न स्वभावो ब्रह्मेत्ययुक्तं व्याप्त्यभावादित्याह -- कार्योति । ननु देह- व्यतिरिक्तात्मवादिनामात्मनि भाति देहव्यतिरिक्तोऽपि भावेति व्याप्तिसिद्धिरित्याश ङ्कघाऽऽह—–कथमिति । देहादिसंघातादतिरिक्तोऽहत्येिवं व्यतिरिक्त विज्ञाने सति कथं तेषां कर्तृत्वादिविज्ञानं संभवति । न हि संघाताभिमौनबिगते तद्युज्यते । न च तन्नास्त्येव दृश्यमानत्वादित्यर्थः । सिद्धे दृष्टान्ते दार्शन्तिकमाह - - तद्वदिति | देहाद्व्यतिरिक्तस्य सतोऽप्यप्रतिभानवत्सदात्मकस्यापि श्वेतकेतोहादिष्वात्माभिमानिध्यात्सदात्मनि ब्रह्मणि विज्ञानं न स्यादतस्तःस्त्रभावस्यापि ब्रह्ममावस्याप्रतिभा नमज्ञानकृतमित्यर्थः । वाक्यस्यार्था- न्तरपरत्वासंभवे फलितमुपसंहरति — तस्मादिति | महावाक्यस्मोक्तया विधयाऽर्थान्तरपर- त्वासंभवाद्विकारेऽनृताभिसंधिकृतोऽयं जीवात्मत्येवंरूपं यन्मिध्याज्ञानं तस्य सनिदानस्य निवर्तकमेवेदं तत्त्वमतिवःक्यं न त्वभूतप्रादुर्भावफलमित्येवं जीवब्रह्मणोरैक्यं सर्वोपनिषत्सार- भूतं स्थितमित्यर्थः || ३ || इति षष्टाध्यायस्य षोडशः खण्डः ॥ १६ ॥ - इति श्रीपरमहंसपरिव्राजकश्री शुद्धानन्दपूज्यपादशिष्यभगत्रदानन्दज्ञानकृतायां श्रीशंकरभगवत्कृतच्छान्दोग्यभाष्पटीकायां षष्ठोऽध्यायः समाप्तः ॥ ६ ॥ ( अथ सतमाध्यायस्य प्रथमः खण्डः । ) अधीहि भगव इति होपससाद सनत्कुमारं नार दस्त होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥ परमार्थतत्त्वोपदेशप्रधानपरः षष्ठोऽध्यायः सदात्मैकत्व निर्णय परतयैवो- पयुक्तः । न सतोऽर्वाग्विकारलक्षणानि तत्त्वानि निर्दिष्टानीत्यतस्तानि नामादीनि प्राणान्तानि क्रमेण निर्दिश्य तद्वारेणापि भूमाख्यं निरतिशयं १ क. यदुक्त । २ क. ख. व. ञ. ट. ड. ण. 'हिरि' | ३ क. ख. ग. छ. ट. ण. “मानातिग° । ४ ख. छ. ञ. ण. तो देहा' । ५ ख. च. ङ. ज. त. थ. सनात्कु° । ६ ठ, पूर्व पर° । ७ ठ, ख्यं यन्भिर |