पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः ३] छान्दोग्योपनिषत् । त्याशङ्कयाऽऽह-सविता स्विति । अदित्यस्यास्तं गतस्य प्रत्यहमेकडेवाऽऽगतिदर्शना- तस्मिन्प्रत्यास्वरशब्दस्य पि प्रवृत्तिरस्तीत्यर्थः । अत: प्राणादित्ययोरुक्तं साम्यं निगमयति- अस्मादिति । अन्योन्यसाम्यकृतं फलमाह-अत इति । प्राणादिन्यावेकीकृत्य तदृष्टयो- श्रीधावयवभूतमोंकाराख्यमक्षरमुपास्यमित्यर्थः ॥ २ ॥ अथ खलु व्यानमेवोद्गीथमुपासीत यदै प्राणिति स प्राणो यदपानिति सोऽपानः । अथ यः प्राणा- पानयोः संधिः स व्यानो यो व्यानः सा वाक् । तस्मादप्राणन्ननपानन्याचमभिव्याहरति ॥ ३॥ अय खल्विति प्रकारान्तरेणोपासनमुद्गीथस्योच्यते व्यानमेवे वक्ष्यमाणल- क्षणं प्राण् स्यैव वृत्तिविशेषमुद्गीथमुपासीत । अधुना तत्सतत्त्वं निरूप्यते-य? पुरुषः प्राणिति मुखनासिकाभ्यां वायु बहिनि:सारयति स प्राणाख्यो वायो- त्तिविशेषो यदपानित्यपश्वसिति ताभ्यामेवान्तराकपति वायुं सोऽपानोऽपा. नाख्या वत्तिः । ततः किमिति, उच्यते-अथ च उक्तलक्षणयोः प्राणापानयोः संधिस्तश्योरन्तरा वृत्तिविशेषः स व्यानः, यः सांख्यादिशास्त्रप्रसिद्धः श्रया विशेषनिरूपणान्नासौ व्यान इत्यभिप्रायः । कस्मात्पुनः प्राणापानौ हित्वा मह- ताऽऽयासेन व्यानस्यैवोपासनमुच्यते । वीर्यवत्कर्महेतुत्वात् । कथं वीर्यवत्कर्महे- तुत्वमित्याह--यो व्यानः सा वाक् । व्यानकार्यत्वाद्वाचः । यस्माद्याननि- वा वाक्तस्मादमाणननपानन्माणापानव्यापारावकुर्वन्वाचमभिव्याहरत्युच्चार• यति लोकः ॥३॥ अथाऽऽध्यात्मिकमाधिदविकं चोद्गीथोपासनं प्रस्तुत्य तदेव समस्यैकीकृत्योक्तं तथा च वक्त- व्याभावास्किमुत्तरेण · ग्रन्थेनेत्याशङ्कयाँऽऽध्यात्मिकमेवोद्गीथोपासनमनुसृत्याऽऽह-अथेति । कोऽसौ व्यानो यदृष्टयोद्गीथोपासनमुपदिदिक्षितमत आह- वक्ष्यमाणलक्षणमिति । पक्षान्तरं व्यावर्तयति-प्राणस्यैवेति । वक्ष्यमाणलक्षणमित्युक्तं व्यक्ती करोति-अध. नेति । तन्निरूपणार्थमादौ प्राणापानौ निरूपयति-यद्वा इत्यादिना । ताभ्यामेव मुखनासिकाभ्यामित्येतत् । स्याभिवं प्राणापानौ व्यानस्य तु किमायातमिति शाङ्कत्वा

  • तयोरित्यस्य वृत्तिविशेष इत्यत्रान्वयः । अन्तरेत्यस्य प्राणापानावित्यध्याहृतेन संबन्धः ।

१ ख. ग. घ. I. 'पि वृ'। २ ख. व च याथाऽऽध्या । ५ क. ग. तामित्येवं । । ३ च. समत्वं नि । ४ ख. अ.