पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः १ ] छान्दोग्योपनिषत् | ३९१ तत्व निर्देक्ष्यामीति शाखा चन्द्रदर्शन वदितीमं सप्तमं प्रपाठकमारभते । अनिर्दि टेषु हि सतोर्वाक्तत्वेषु सन्मात्रे च निर्दिष्टेऽन्यदप्यविज्ञातं स्यादित्याशङ्का कस्यचित्स्यात्सा मा भूदिति वा तानि निर्दिदिक्षति । अथवा सोपानारोहण - वत्स्थूलादारभ्य सूक्ष्मं सूक्ष्मतरं च बुद्धिविषयं ज्ञापयित्वा तदतिरिक्ते स्वारा. ज्येऽभिषेक्ष्यामीति नामौदीनि निर्दिदिक्षति । अथवा नामायुत्तरोत्तर विशिष्टानि तत्त्वान्यतितरां च तेषामुत्कृष्टतमं भूमाख्यं तत्त्वमिति तत्स्तुत्यर्थ नामादीनां क्रमेणोपन्यासः । आख्यायिका तु परविद्यास्तुत्यर्था । कथम् | नारदो देवर्षिः कृतकर्तव्यः सर्वविद्योऽपि सन्ननात्मज्ञत्वाच्छुशोचैव किमु वक्तव्यमन्थोऽल्प विज्ज न्तुरकृतपुण्यातिशयोऽकृतार्थ इति । अथवा नान्यदात्मज्ञानान्निरतिशयश्रेयःसा- धनमस्तीत्येतत्मदर्शनार्थं सनत्कुमारनारदाख्यायिकाऽऽरभ्यते । येन सवैविज्ञान- साधनशक्तिसंपन्नस्यापि नारदस्य देवः श्रेयो न बभूत्र येनोत्तमाभिजनविद्या- वृत्तसाधनशक्तिसंपत्तिनिमित्ताभिमानं हित्वा प्राकृतपुरुषवत्सनत्कुमारमुपससाद श्रेयःसाधनप्राप्तयेऽतः प्रख्यापितं भवति निरतिशयप्राप्तिसाघनत्वमात्मविद्याया इति । अधीह्यधीष्व भगवो भगवन्निति किलोपससाद | अधीहि भगव इति मन्त्रः । सनत्कुमारं योगीश्वरं ब्रह्मष्टं नारद उपसन्नवान् । तं ययत उपसन्नं होवाच यदात्मविषये किंचिद्वेत्थ तेन तत्मख्यापनेन मामुपसीदेदमहं जान इति ततोऽहं भवतो विज्ञानात्ते तुभ्यमूर्ध्वं वक्ष्यामीत्युक्त वति स होवाच नारदः ॥ १॥ ४ - षष्ठसप्तमयोरध्याययोः संबन्धं वक्तुकामः षष्ठे वृत्तं कीर्तयति – परमार्थोति । उत्त- माधिकारिणं प्रत्यबाधिततत्त्वबोधनं प्रधानं तत्परोऽतीतोऽध्यायः स सतो ब्रह्मणः प्रत्यनिश्चयपरत्वेनैव व्याख्यात इत्यर्थः । अध्यायान्तरभूमिकामारचयति – न सत इति । मध्यममधिकारिणं प्रति परम्परया ब्रह्मात्मत्वमुपदेष्टुं सतमप्रपाठक प्रवृत्तिरित्यर्थः । नन्चत्रापि ब्रह्मात्मःवमेवोपदेष्टुमिष्टं चेकिमिति तर्हि नामादीनि तत्त्वानि निर्दिश्यन्ते तत्राऽऽह – अनिर्दिष्टेष्विति । वाशब्दः शङ्कानिरासार्थः । यद्वा द्वयोरध्याययोरद्वि तीयब्रह्मात्मविषयत्वाविशेषेऽपि मुत्तरे।त्तरभूयस्त्वविशिष्टानां — साक्षात्पारम्भ्यासपौनरुक्त्यमुक्तं संप्रति नामादीना- सन्मानविज्ञानेनाविज्ञानादेक विज्ञानेन सर्वविज्ञानमयुक्तमि- १ ठ. °त्त्वं तम्निर्दे॰ । २ ठ. °न्द्रनिद° | ३ ख. ग. घ. ञ ट ढ ण. 'मादि निर्दि॰ । ४ क. ग. ट. 'वैज्ञा' । ५. चष्टं । ६ क. ख. ङ च ठ. ण. न्यायो । ७ ख. ग. घ. ङ. च. ट. ट. ढ ण. जाने त ।