पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः १ ] छान्दोग्योपनिषत् । ३९३ व्याकरणेन हि पदादिविभागश ऋग्वेदादयो ज्ञायन्ते । पित्र्यं श्राद्धकल्पम् । राशि गणितम् | दैवमुत्पातज्ञानम् । निधि महाकालादिनिधिशास्त्रम् | वाको वाक्यं तर्कशास्त्रम् | एकायनं नीतिशास्त्रम् | देवविद्यां निरुक्तम् । ब्रह्मण ऋग्यजुःसामाख्यस्य विद्यां ब्रह्मविद्यां शिक्षाकल्पच्छन्दश्चितैयः । भूतविद्यां भूततन्त्रम् । क्षञ्चविद्यां धनुर्वेदम् । नक्षत्रविद्यीं ज्यौतिषम् । सर्पदेवजनावद्यां सर्पविद्यां गारुडं देवजनविद्यां गन्धयुक्तिनृत्यगीतवाद्याशिल्पादिविज्ञानानि । एत्तस्सर्वे हे भगवोऽध्यमे ॥ २ ॥ अध्ययनवाचि पदं स्मरणपरतया कथं व्याख्यातमित्याशङ्कयाऽऽह - यद्वेत्थेति । गन्धयुक्तिः कुङ्कुमादिसंपादनम् || २ || सोऽहं भगवो मन्त्रावदेवास्मि नाऽऽत्मविच्छुत५ ह्येव मे भगवदहशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तार- यति त होवाच यद्वै किंचैतदध्यगीष्ठा नाम- वैतत् ॥ ३ ॥ । सोऽहं भगव एतत्सर्व जानन्नपि मन्त्रविदेवारिम शब्दार्थमात्र विज्ञानवाने. चास्मीत्यर्थः । सर्वो हि शब्दोऽभिधानमात्रमभिधानं च सर्व मन्त्रेवन्तर्भवति । मन्त्रविदेवास्मि मन्त्रवित्कर्मविदित्यर्थः । मन्त्रेषु कर्मा नाऽऽत्मविश्नाऽऽत्मानं वेझि । नन्वात्माऽपि मन्त्रैः प्रकाश्यत एवेति कथं मन्त्र- विचेन्नाऽऽत्मचित् । न । अभिधानाभिधेयभेदस्य विकारत्वात् । न च विकार आत्मेष्यते । नन्वात्माऽप्यात्मशब्देनाभिधीयते । न । “यतो वाचो निवर्तन्ते " । यत्र नान्यत्पश्यति " इत्यादिश्रुतेः । कथं तात्मैवाधस्तात्स आत्मेत्यादि- शब्दा आत्मानं प्रत्याययन्ति । नैष दोषः | देहवति प्रत्यगात्मनि भेदविषये ● प्रयुज्यमानः शब्दो देहादीनामात्मत्वे प्रत्याख्यायमाने यत्परिशिष्टं सद- वाच्यमपि प्रत्याययति । यथा सराजिकायां दृश्यमानाय सेनायां छत्र- ध्वजपताका दिव्यवहितेऽदृश्यमानेऽपि राजन्येप राजा दृश्यत इति भवति शब्दप्रयोगस्तत्र कोऽसौ राजेति राजविशेषनिरूपणायां दृश्यमाने- 66 १ क. °तयस्ताः । भू° । २. ख... ञ. ठं.. डं. ढ. ण. 'यां ज्योति । ३ क ग. ङ. च. ट. ड. त्माइम' ।