पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्डः १ ] छान्दोग्योपनिषत् | प्लनेति यावत् । कथं मी यमर्थज्ञानं सर्व नाममात्रमित्याशङ्कचाऽऽह – वाचाऽऽ रस्मणमिति || ३ || नाम वा ऋग्वेद यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराण: पञ्चमो वेदानां वेदः पित्र्यो राशि- देवो निधिकोवाक्यमेकायनं देवविद्या बाविया भूतविया क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥ ४ ॥ नाम वा ऋग्वेदो यजुर्वेद इत्यादि नामैवैतत् । नामोपारस्व ग्रह्मेसि ब्रह्म- बुध्या | यथा प्रतिमां विष्णुबुद्ध्योपास्ते तद्वत् ॥ ४ ॥ - उक्तमुपपादयति- - नाम वा इति । तदुपसंहरति — नामैवेति । केन रूपेणेद नाम।ऽऽदर्तव्यमित्याशङ्कयाऽऽह – नामेति । उपास्तिप्रकारं दृष्टान्तेन स्फुटयति — यथते ॥ ४ ॥ स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्लो गतं तत्रास्थ यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्लो बाव भूयोऽस्तीति तन्मे भगवान्ब्रवीविति ॥ ५ ॥ इति समाध्यायस्य प्रथमः खण्डः ॥ १ ॥ म यस्तु नाम ब्रह्मेत्युपास्ते तस्य यत्फलं भवति तच्छृणु यावन्नाम्नो गतं नाम्नो गोचरं तत्र तस्मिन्नामविषयेऽस्य यथाकामचार: कामचरणं राज्ञ इव स्वविषये भवति । यो नाम ब्रह्मेत्युपास्त इत्युपसंहारः । किमस्ति भगवो नामो भूयोऽधिकतरं यद्ब्रह्मदृष्ट्यर्हमन्यदित्यमित्रायः । सनत्कुमार हाम्रोवाव भूयोऽस्त्येवेत्युक्त आह्व यद्यस्ति तन्मे भगवान्दीविति ॥ ५ ॥ इति सप्तमाध्यायस्य प्रथमः खण्डः ॥ १ ॥