पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतीका संवलित शांकरभाष्यसमेता- [ ७ सप्तम ध्याये- नाम्नि ब्रह्मदृष्टयोपास्यमाने किं स्यादित्याह—स यस्त्विति । यो नामेत्यादिवाक्यस्य पौनस्क्व्यमित्याशङ्कयाऽऽह -- यो नामेति ॥ ५ ॥ ANT इति सप्तमाध्यायस्य प्रथमः खण्डः ॥ १ ॥ ( अथ सप्तमाध्यायस्य द्वितीयः खण्डः । ) वाग्वाव नाम्रो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेद सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्य राशि देवं निधि वाको- वाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्र- विद्यां नक्षत्रविया सर्पदेवजनविद्यां दिवे च पृथिवीं च वायुं चाऽऽकाशं चापश्च तेजश्व देवाश्च मनु- व्याश्च पशुश्च वयासि च तृणवनस्पती श्वाप- दान्याकीटपतङ्गपिपील के धर्मं चाधर्मं च सत्ये चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च य वाङ्नाभविष्यन धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ १ ॥ वाग्वाव | वागितीन्द्रियं जिह्वामूलादिष्वष्टसु स्थानेषु स्थितं वर्णानामभि- व्यञ्जकम् । वर्णाश्र नामेति नाम्नो वारभूयसीत्युच्यते । कार्याद्धि कारणं भूयो दृष्टं लोके यथा पुत्रात्पिता तद्वत् । कथं च वाङ्नाम्नो भूयसीत्याह— वाग्वा ऋग्वेदं विज्ञापयत्ययमृस्वेद इति । तथा यजुर्वेदमित्यादि समानम् | हृदयज्ञं हृदयश्रियम् । तद्विपरीतमहृदयज्ञम् । यद्यदि वाङ्नाभविष्यद्धर्मादि न १ ख. झ ञ ट थ. पीलिकं । २ क. ख. द. वर्णच १३ क. ख. ग. घ. ङ.. च. ञ. ढ. ड. ण. ॰॰यड्। ।