पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ आनन्द गिरिकृतटीका कुरुते पुत्राश्च पशुओच्छेवेत्यथेच्छत इमं च लोकममं चेच्छे येत्यथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्वति ॥ ३ ॥ संवलितशांकरभाष्यसमेता-[ ७ सप्तमाध्याये मनो मनस्यनविशिष्टमन्तःकरणं वाचो भूयः । तद्धि मनस्यनव्यापारवद्वाचं वक्तव्ये प्रेरयति । तेन वाङ्मनस्यन्तर्भवति । यच्च यस्मिन्नन्तर्भवति तत्तस्य व्यापकत्वात्ततो यूयो भवति । यथा वै लोके द्वे वाऽऽमलके फले द्वे वा कोले बदरफले हाँ वाऽक्षौ विभीतकफले मुष्टिरनुभवति मुष्टिस्ते फलेव्यानोति मुष्टाँ हि ते अन्तर्भवतः । एवं वात्रं च नाम चाऽऽमलकादिवन्मनोऽनुभवति स यदा पुरुषो यस्मिन्काले मनसाऽन्तःकरणेन मनस्यति मनस्यनं विवक्षाबुद्धिः कथं मन्त्रानधीयीयोच्चारयेयमित्येवं विवक्षां कृत्वाऽथाधते तथा कर्माणि कुर्वीयेति चिकीर्षाबुद्धिं कृत्वाऽथ कुरुते पुत्रांच पशूंचेच्छेयेति प्राप्तीच्छां कृत्वा तत्प्राप्त्यु - पायानुष्ठानेनाथच्छते पुत्रादीन्मामोतीत्यर्थः । तथेयं च लोकममुं चौपायेने-

  • च्छेयेति तत्प्राप्त्युपायानुष्ठानेनायेच्छते प्राप्नोति । मनो ह्यात्माऽऽत्मनः कर्तृत्व

भोक्तृत्वं च सति मनसि नान्यथेति मनो ह्यात्मेत्युच्यते । मनो हि लोकः सत्येव हि मनास लोको भवति तत्प्राप्त्युपायानुष्ठानं चेति मनो हि लोको यस्मात्तस्मान्मनो हि ब्रह्म । यत एवं तस्मात्मन उपास्स्वेति ॥ १ ॥ मनःशब्दस्य वृत्तिमात्रविषय चं व्यावर्तयति - मन इति । कथं तस्त्व वाचो भूयस्त्वं तदाह —तद्धीति । वाचो मनस्यन्तर्भावेऽपि कुतो मनसस्तस्या भूयस्त्वं तत्राऽऽह यच्चेति । मनसो वागादेर्व्याप्तिं दृष्टान्तेन स्पष्टयति – यथेत्यादिना | इतश्च मनसोऽस्ति भूयस्त्वमित्याह — यदेति । विवक्षाबुद्धिस्तां करोतीति शेषः । इच्छेयेती. छां कृःवेति. शेषः । तस्याऽऽमत्वमुपपादयति — आत्मन इति । तस्य लोक साधयति — सत्ये- PAMO वेति ॥ १ ॥ स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं त त्रास्य यथाकामचारी भवति यो मनो ब्रह्मेत्यु- पास्तेऽस्ति भगवो मनसो भूय इति मनसो

  • अञ यद्यपिपलब्यपुस्तकविच्छेयमिति दृश्यते तथाऽपि तल्लेखकपमादात् ।