पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ आनन्दगिरि कृतटीका संवलितशांकरभाष्यसमेता-[ ७ सप्तमाध्यायै– महत्त्वमित्याशङ्कय।ऽऽह-~- एतद्धति । तन्महत्त्वे फलितमाह -- अत इति ॥ २ ॥ स यः संकल्पं ब्रह्मेत्युपास्ते वेऌतान्वै स लोकान्धु- बान्ध्रुवः प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमा- नोऽभिसिध्यति यावत्संकल्पस्य गतं तत्रास्य यथा- कामचारो भवति यः संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पाद्भूय इति संकल्पाडाव भूयोऽस्तीति तन्मे भगवान्चयीत्विति ॥ ३ ॥ इति सप्तमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ स यः संकल्पं ब्रह्मेति ब्रह्मबुद्धयोपास्ते वलृप्तान्वै धात्राऽस्येमे लोकाः फल. मिति क्लृप्लान्समर्थितान्संकल्पितान्सान्नित्यानत्यन्तावापेक्षया ध्रुव स्वयम् । लोकिनो ह्यध्रुवत्वे लोके ध्रुवबलृप्तिव्यथेति ध्रुवः सन्प्रतिष्ठितानुपकरण- संपन्नानित्यर्थः । पशुपुत्रादिभि: प्रतितिष्ठतीति दर्शनात्स्वयं च प्रतिष्ठित आत्मीयोपकरणसंपन्नोऽव्यथमानान मित्रादित्रासरहितानव्यथमानश्च स्वयमभि सिध्यत्यभिप्रानोतीत्यर्थ: । यावत्संकल्पस्य गतं संकल्पगोचरस्तत्रास्य यथाका- मचारो भवति आत्मनः संकल्पस्य न तु सर्वेषां संकल्पस्येति । उत्तरफलविरो- धात् । यः संकल्पं ब्रह्मेत्युपास्त इत्यादि पूर्ववत् || ३ || इति सप्तमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ आत्मातिरिक्तानां लोकानां कथं नियत्वमत ध्रुबत्वमुच्यतां किमिति लोकिनस्तदुच्यते रात्राऽऽ - अ.ह - अत्यन्तति | लोकानामेवं — लोकिनो हीति । कथमुपकरण- --- संपन्नेषु प्रतिष्टितशब्दो भत्रतीयाशङ्कयाऽऽह - पशुपुत्रादिभिरिति । यावत्संकल्पस्थे• - त्यादिश्रुतेर्विषयसंकोचं दर्शयति - आत्मन इति । संकल्पस्य यागोचरस्तत्रास्य - कामचारो भवतीति संबन्धः । लिङ्कुशे संकल्पशब्दे का हानिरित्याशङ्कयाऽऽ• ह - उत्तरेति । यदि संकलमात्रस्य गोचरे संकल्पोपासकस्य कामचारो भवति तर्हि सर्वसंकल्पस्य विचित्रतया सर्वगोचरत्वसंभवाद्यावचित्तस्य गतमित्या- दिना वक्ष्यमाणफलं विरुध्येत न हि संकल्पोपासनादेव सर्वस्मिन्फले सिद्धे चित्ताधु- १ क. ब. संक्ऌप्तान । व्यर्था लोकानां ध्रुवतेति ।