पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः ५ ] छान्दोग्योपनिषत् | ४०३ पासनं तत्फलं वा पृथक्कथयितुमुचितमतो यावत्संकल्पस्येत्यादिश्रुतेरुक्तः संकोचो युक्त इत्यर्थः ॥ ३ ॥ इति सप्तमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ 58 -I 4 ( अथ सप्तमाध्यायस्य पञ्चमः खण्डः । ) चित्तं वाव संकल्पाद्यो यदा वै चेतयतेऽथ संकल्पयतेऽय मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रे- षु कर्माणि ॥ १ ॥ चित्तं वाव संकल्पाद्भ्यः | वित्तं चेतयितृत्वं प्राप्त कालानुरूपयोधवत्त्वपती- तानागतविषयप्रयोजननिरूपणसामर्थ्य च तत्संकल्पादपि भूयः । कथम् । यदा चै प्राप्तं वस्त्विदमेवं प्राप्तमिति चेतयते तदा दानाय वाऽपोहाय वाऽथ संकल्प- यतेऽथ मनस्यतीत्यादि पूर्ववत् ॥ १ ॥ चित्तशब्दस्य मनःशब्देन पुनरुक्ति परिहरति - चित्तं चेतयितृत्वमिति । तस्याऽऽ- तमत्वं व्यावर्तयति — प्राप्तेति । इदं वस्त्रेवं प्राप्तमिति प्राप्तकालवस्तुनो वस्त्वनुरोधी चेत नाख्यो वृत्तिविशेषस्तद्वत्त्रं चितःत्रमित्यर्थ । अतीतं भोजनं तृप्तिसाधनं दृष्टं भोजनत्वादा- गामिनोऽपि तस्य तदेव प्रयोजनमितिनिरूपण सामर्थ्य चित्तमिति प्रसिद्धमित्याह -- अती- तेति । यथोक्तस्य चित्तस्य संकल्प भूयस्त्वं प्राप्तमपूर्वत्वं व्युत्पादयति – कथमित्या- दिना | संकल्पप्रकरणं परामृशति--पूर्ववदिति ॥ १ ॥ - तानि ह वा एतानि वित्तैकायनानि चित्ता- त्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपि बहु- विदचित्तो भवति नायमस्तनमा हुर्यदयं वेद यद्वा अयं विद्वान्त्यमचित्तः स्थादित्यथ ययल्पविश्चित्तवान्भवति तस्मा एवोत शुश्रू- १ क॰ ख. छ. ञ. ण. °चितं यतो । २ क्र. ख. ग. ङ. च. ञ. ट. ण. 'द्भूयोऽस्ति । चि° । ३ ट. वा ह'नाय | ४ ञ. 'पोहनाय | ५ छ. ण. शे° | ६ क. ख. छ. ञ. ‘समि°-