पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ आनन्दागेरिकृतटीकासंवलितशांकरभाष्यसंमेता- [ ७ सप्तमाध्याये- देवमनुष्याः शमादिगुणसंपन्ना मनुष्या देवस्वरूपं न जहतीत्यर्थः । यस्मादेवं विशिष्टं ध्यानं तस्माद्य इह लोके मनुष्याणामेव धनैर्विद्यया गुणैर्वा महत्तां महत्त्वं प्राप्नुवन्ति धनादिमहत्त्वहेतुं लभन्त इत्यर्थः । ध्यानापादांशा इव ध्यान- स्याऽऽपादनमापादो ध्यानफललाभ इत्येतत्तस्यांशोऽवयवः कला काचिद्धया- नफललाभकलावन्त ईवेंथेत्यर्थः । ते भवन्ति निश्चला इव लक्ष्यन्ते न क्षुद्रा इव । अथ ये पुनरल्पाः क्षुद्राः किंचिदपि धनादिमहत्त्वैकदेशमप्राप्तास्ते पूर्वोक्तविप रीताः कलहिनः कलहशीलाः पिशुना: परदोषोद्भासका उपवादिनः परदोषं सामीप्ययुक्तमेवळुवदितुं शीलं येषां त उपवादिनच भवन्ति । अथ ये महत्त्वं प्राप्ता धनादिनिमित्तं तेऽन्यान्प्रति प्रभवन्तीति प्रभवो विद्याचार्यराजेश्वरादयो ध्यानापादांशा इवेत्यायुक्तार्थम् । अतो दृश्यते ध्यानस्य महत्त्वं फलतोऽतो भूयश्चित्तादतस्तदुपास्स्त्रेत्यायुक्तार्थम् ॥ १ ॥ २ ॥ - इति सप्तमाध्यायस्य षष्टः खण्डः ॥ ६ ॥ किं तद्व्यानमित्यपेक्षायामाह– ध्यानं नामेति । अचलत्वं साधयति - - भिन्नजा- तीर्यैरिति । कथं तस्य चित्ताद्भूयस्त्वामित्याशङ्कयानेकाग्रतादोषोपहतस्यातीतादिफलनि- रूपणेन सामर्थ्यादर्शन।देकाग्रतारूपो ध्यानपदार्थश्चेतयितृत्वात्तस्य कारणत्वात्ततो भूयानेवे. त्यभिप्रेत्याऽऽह--एक।ग्रतेति । इति तस्य भूयस्त्वमित्याह - - दृश्यते चेति । फलद्वारा तन्माहात्म्यं प्रश्नपूर्वकं दृष्टान्तेन स्पष्टयति -- कथमित्यादिना | गौरवपरिहा- रार्थं पक्षान्तरमाह--मनुष्या एवेति । मनुष्याणामेव सतां कुतो देवत्वमित्याशङ्कयाऽऽह- शमादीति। ध्यानफलं नैश्चल्यं तन्महस्सु पृथिव्यादिषु दृष्टं तथाच तद्वैशिष्ट्यमित्यर्थः । तत्रैव हेत्वन्तरमाह — यस्मादिति । धनादिभिर्महत्त्वे हेतुमुत्कृष्टं कर्मेति यावत् । ध्यानस्याऽऽपादनमनुष्ठानं तेन तत्फललाभो लक्ष्यते तस्यांशो येषामस्ति ते तथा । ध्यान- फललाभकलावत्वमेव स्फुटयति -- निचला इति । एवकारार्थमाह - नेति । महत्सु पुरुषेषु ध्यानफलानुनृत्तिर्दृष्टेयन्वयमुक्त्वा व्यतिरेकमाह - - अथेति । व्यतिरेकं दर्शयि त्वाऽन्वयमुपसंहरति--अथ ये महत्त्वमिति | महत्सु नैश्चल्यदर्शनमतःशब्दार्थः । मह- वफलमाह — अत इति ॥ १ ॥ २ ॥ इति सप्तमाध्यायस्य षष्ठः खण्डः ॥ ६ । १ ख. ङ. ञ. ड. ण. इत्य' । क. ग. घ. च. ट. ड. इवें । २ ग. ङ. च. ट. ठ. 'दोषस' । ३ क. ग. ॰मीप्ये यु' । (