पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [७ सप्तमाध्याये- तचास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान्त्र- -ति ॥ २ ॥ इति समभाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ शृणूपासनफलं विज्ञानवतो विज्ञानं येषु लोकेषु तांन्विज्ञानवतो लोकाञ्ञ्ज्ञा- नवतश्चाभिसिध्यत्याभप्राप्नोति | विज्ञानं शास्त्रार्थविषयं ज्ञानमन्याविषयं नैपुण्यं तद्वद्भिर्युक्त लोकान्मामोतीत्यर्थः । यावद्विज्ञानस्येत्यादि पूर्ववत् ।। २ ।। इति समाध्यायस्य सप्तमः खण्डः ।। ७ ।। ज्ञानत्रिज्ञानशब्दयोरर्थभेदं कथयति- विज्ञानमिति । तथाऽपि लोकानामचेतनानां कुतस्तदुभयाश्रयत्वमित्याशङ्कयाह - तद्वद्भिरिति ॥ २ ॥ इति सप्तमाध्यायस्य सप्तमः खण्डः ॥ ७ ॥ ( अथ सप्तमाध्यायस्याष्टमः खण्डः । ) चलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवता- मेको बलवानाकम्पयते स यदा बली भवत्यथो- स्थाता भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुप- सत्ता भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति वलेनान्तरिक्षं बलेन यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्य वयासि च तूणवनस्पतयः श्वापदान्याकीटपतङ्ग- पिपीलकं बलेन लोकस्तिष्ठति बलमुपास्स्वेति ॥ १ ॥ १ ख. घ. च. ञ. उ. प. 'भि.मे.' 1 २ थ. 'लेनापोडवलेन प°३ ख. . ञ, त. थं, पीलिकं । ४ ग. लोकास्तिष्ठन्ति ।