पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् | स यो बलं बलेत्युपास्ते यावद्दलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं बलेत्युपास्तेऽस्ति भगवो चलाडूय इति बलाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ २ ॥ अष्टमः खण्ड: ८ ] इति सप्तमाध्यायस्याष्टमः खण्डः ॥ ८ ॥ चलं वाव विज्ञानाद्भूयः । घलमित्यन्नोपयोगजनितं मनसो विज्ञेये प्रतिभा- नसामर्थ्यम् । अनशनाहगादीनि न वै मा प्रतिभान्ति भो इति श्रुतेः । शरीरेऽपि तदेवोत्थानादिसामर्थ्य यस्माद्विज्ञानवतां शतमध्येकः माणी बलवानाकम्पयते यथा हस्ती मत्तो मनुष्याणां शतं समुदितमपि । यस्मादेवमन्नाद्युपयोगतिमित्तं चलं तस्मात्स पुरुषो यदा वली बलेन तद्वान्भवत्यथोत्थातोत्थानस्य कत्ति- पुंच गुरूणामाचार्यस्य च परिचरिता परिचरणस्य शुश्रूषायाः कर्ता भवति परिचरन्नुपसत्ता तेषां समीपगोऽन्तरङ्गः मियो भवतीत्यर्थः । उपसदंश्च सामीप्यं गच्छन्ने काग्रतयाऽऽचार्यस्यान्यस्य चोपदेष्टुर्गुरोर्द्रष्टा भवति । ततस्तदुक्तस्य श्रोता भवति । तत इदमेथिरुक्तमेवमुपपद्यत इत्युपपत्तितो मन्ता भवति मन्वानश्च बोद्धा भवत्येवमेवेदमिति । तत एवं निश्चित्य तदुक्तार्थस्य कर्ताऽनुष्ठाता भवति विज्ञा. ताऽनुष्ठान फलस्यानुभविता भवतीत्यर्थः । किंच बलस्य माहात्म्यं बलेनवै पृथिवी तिष्ठतीत्याँघृज्वर्थम् ॥ १ ॥ २॥ इति सप्तमाध्यायस्याष्टमः खण्डः ॥ ८ ॥ थोक्ते बलशब्दार्थे श्वेतकेतुबाक प्रमाणपति - अनशनादिति । कथं तर्हि शरीर- साम बलशब्दप्रयोगस्त त्राऽऽह - शरीरेऽपीति । तदेवेत्यन्नोपयोगजनितमेवेत्यर्थः । न केवलं कारणत्वादेव बलं विज्ञानाद्भूयः किंतु प्रत्यक्षं च तस्य ततो भूयस्त्वमित्याह- विज्ञानवत्तामिति । तस्माद्वलस्य विज्ञानाद्भ्यस्त्वमिति शेषः । समुदितमपि कम्यते तथाऽन्यत्रापि द्रष्टव्यमिति संबन्धः | यस्मादेवं बलस्य कारणत्वं विज्ञानस्य च कार्यत्वं तस्मात्ततस्तद्भूयस्स्त्रमित्येतस्मिन्नर्थे कार्यकारणभावमेतयोरुपपादयति-यस्मादित्यादिना । इतश्च बलस्य भूयस्त्वमेष्टव्यमित्याह — किंचेति ॥ १ ॥ २ ॥ इति सप्तमाध्यायस्याष्टमः खण्डः ॥ ८ ॥ १ ख. ञ. ण. विज्ञाते । २ व. ङ च ट 'ज्ञेय । ३. 'त्यायुक्तार्थ । ४ म. ट. मेव त° । पुर