पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः ३] छान्दोग्योपनिषत् । अतो यानीत्यादि व्याचष्टे-न केवलमिति । व्यानेन निर्वर्तयतीति पूर्वेण संबन्धः । यान्यन्यान्यपि यथोक्तानि कर्माणि तानि लोको व्यानेनैव करोतीत्युत्तरत्र संबन्धः । प्रय. नाधिक्यनिर्वानि कर्मण्येवोदाहरति--यथेति । यथा तानि कर्माणि तथाऽन्यान्वप्येवं? प्रकाराणीति योजना | व्यानस्य वीर्यवत्कर्महेतुत्वे फलितमाह - अत इति । चैशिष्टयेऽपि किं स्यादिति चेत्तदाह -विशिष्टस्येति । वैशिष्टयफलमुपसंहरति--एतस्येति । फल. चत्वादित्युक्तमुपास्तिफलं स्पष्टयति--कर्मेति । व्यानदृष्टयोद्गीथोपासनस्याङ्गावब द्वत्वादिति शेषः ॥ ५॥ अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह गिर इत्याचक्षतेऽन्नं थमन्ने हीद५ सर्व स्थितम्॥६॥ अथाधुना खलूद्वीथाक्षराण्युपासीत भक्त्यक्षराणि मा भूवन्नित्यतो विशि- नष्टि-उद्गीथ इति । उद्गीथनामाक्षराणीत्यर्थो नामाक्षरोपासनेऽपि नामवत एवोपासनं कृतं भवेदमुकमिश्रा इति यद्वत् । प्राण एवोत्, उदित्यस्मिन्नक्षरे प्राणदृष्टिः । कथं प्राणस्योत्त्वमित्याह--प्राणेन ह्युत्तिष्ठति सर्वोऽप्राणस्यावसाद- दशेनादतोऽस्त्युदः प्राणस्य च सामान्यम् । वागीः । वाचो ह गिर इत्याचक्षते शिष्टाः । तथाऽन्नं थमन्ने हीदं सर्व स्थितमतोऽस्त्यन्नस्यै थाक्षरस्य च सामान्यम् ॥ ६ ॥ उद्गीथेपासनप्रसङ्गेनोद्गीथाक्षरोपासनां प्रस्तौति-अथेति । विशेषणतात्पर्य दर्शयति- भक्तीति । उद्गीथाक्षराण्युपासीतेन्युक्ते भक्त्यक्षराण्यपास्यानि प्राप्तानि तानि मा भूव. निति यतो मन्यते श्रुतिस्ततो विशेषणं करोतीत्यर्थः । विशेषणश्रुतिं व्याकरोति-- उद्वीथेति । नामाक्षरोपासनेमुद्गीथोपासनस्याकिंचित्करमित्याशङ्कयाऽऽह--नामेति । यथा लोके कृष्णमित्रादिवाचकशब्दप्रयोगे वाच्यस्य पुरुषविशेषस्योपासनं गम्यते तथे- हापीत्यर्थः । नामाक्षरोपासने, नामवत्तदुपासनेऽपि तदुपासनमेव कथमित्याशङ्कय विभजते- प्राण एवेति । प्राणस्योदः सादृश्यं प्रश्नपूर्वकमाह--कथमित्यादिना । गीरित्यस्मिन्न- क्षरे वाग्दृष्ठिः कर्तव्येत्याह-वागीरिति । वाचो गिरश्च सादृश्यं दर्शयति-वाचो हेति । उद्गीरक्षरयोः प्राणवाग्दृष्टिरिव थमित्यस्मिन्नक्षरेऽन्नदृष्टिः कार्येत्याह--तथेति । थकारान्नयोरपेक्षितं सादृश्यं दर्शयति-अन्ने हीति ॥ ६॥ . १ ख. ब. ङ, °स्य धकार । २ ख. र. 'नस्या । ३ न. रत्वमि' । ४ ख. उ. न. 'उद्गचक्ष।