पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादश: खण्ड: ११ ]। छान्दोग्योपनिषत् | भिश्व विद्युद्धिराहादाश्चरन्ति तस्मादाहुर्बियोतते स्त नयति वर्षिष्यति वा इति तेज एव तत्पूर्व दर्शयि त्वाऽथापः सृजते तेज उपास्स्वेति ॥ १ ॥ .४१३ तेजो वावाद्भयो भूयः | तेजसोऽष्कारणत्वात् । कथमष्कारणत्वमित्याह । यस्मादब्योनिस्तेजस्तस्मात्तद्वा एतत्तेजो वायुमागृह्यावष्टभ्य स्वात्मना निचली- कृत्य वायुमाकाशमभित पत्याकाशमभिव्याप्नुवत्तपति यदा तदाऽऽहुलौकिका नि शोचति संतपति सामान्येन जगन्नितपति देहानतो वर्षिष्यति वा इति । प्रसिद्धं हि लोके कारणमभ्युद्यतं दृष्टवतः कार्य भविष्यतीति विज्ञानम् / तेज एव तत्तू- र्वमात्मानमुद्भूतं दर्शयित्वाऽयानन्तरमपः सृजतेऽतोऽप्स्रष्टृत्व।द्भूयोऽद्भ्यस्तेजः । किंचान्यत्तदेतत्तेज एव स्तनयित्नुरूपेण वर्षदेतुर्भवति । कथम् । ऊर्ध्वाभिचो. र्ध्वगाँभिर्विद्युद्भिस्तिर श्रीभिश्च तिर्यग्गताभिश्च सहाऽऽहादाः स्तननशब्दाश्चरन्ति । तस्माद्दर्शनादाहुलकिका विद्योतते स्वनयति वर्षिष्यति वा इत्यायुक्तार्थम् । 9 अतस्तेज उपास्स्वेति ॥ १ ॥ -- इतिशब्दस्तदाहुरित्यनेन संवध्यते । वैशब्दार्थं दर्शयति - - प्रसिद्धमिति । अतेजसो- रक्त कार्यकारणमुपजीव्य फलितमाह - - तेज एवेति । अप्तेजसोर्विधान्तरेण कार्य- कारणभ.वं दर्शयति—किंचान्यदिति । तदेवोपपादयति -- ऊर्ध्वाभिरिति । तेजसो भूयस्त्वफलमाह--तेज इति ॥ १ ॥ स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वैस तेजस्वतो लोकान्भास्वतोऽपहत तमस्कानभिसिध्यति यावत्ते- जसो गतं तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भगवान्वीविति ॥ २ ॥ इति सप्तमाध्यायस्यैकादशः खण्डः ॥ ११ ॥ तस्य तेजस उपासनफलं - तेजस्वी वैभवति । तेजस्वत एव च लोका- १ ख. व. ८.. च. ञ. ढ ण वा अद्भयो । २ क. ख. घ. ञ. ण. "भिव्या° । ३ ख. ञ. उ॰ ण. “गामिनीभि’।