पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ आनन्द गिरिकृतटीका संवलितशांकरभाष्यसमेता– ७ सप्तमाध्याये- प्रकाशवतोऽपहततमस्कान्बाह्याध्यात्मिकाज्ञानाद्यपनीततमस्कानभि- न्भास्वतः www.wa सिध्यति । ऋज्वर्थमन्यत् ।। २ ।। इति सप्तमाध्यायस्यैकादशः खण्डः ॥ ११ ॥ तमःशब्दार्थमाह--बाह्येति । बाह्यं तमः शारं प्रसिद्ध माध्यात्मिकमज्ञ नरागादि तदु- भंयमपहततमस्कानित्यत्र तमः शब्दितमित्यर्थः । अपहतशब्दार्थमाह - अपनीतंति ॥ २ ॥ BIHSIP P इति ते सप्तम|ध्यायस्यैकादशः खण्डः ॥ ११ ॥ ( अथ सप्तमाव्यायस्य द्वादशः खण्डः । ) 7777 आकाशो वाव तेजसो भूयानाकारो वै सूर्याचन्द्र- मसाबुत्तौ वियनक्षत्राण्यग्निराक (शेनाऽऽह्वयत्याका- शेन शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत आकारो जायत आकाशमाने- जायत आकाशमुपास्स्वेति ॥ १ ॥ आकाशो वात्र तेजसो भूयान् | वायुसहितस्य तेजसः कारणत्वाद्वये.म्नो बायुमागृह्येति तेजसा सोक्तो वायुरिति पृथगिह नोक्तस्तेजसः । कारणं हि लोके कार्यायो दृष्टम् । यथा घटादिभ्यो मृत्तथाऽऽकाशी वायुसहितस्प तेजसः कारणमिति ततो भूयान् । कथम् | आकाशे वैसूर्याचन्द्रमसावुभौ तेजोरूपौ विशुनक्षत्राण्यग्निश्च तेजीरूपाण्याकाशेऽन्तः । यच्च यस्यान्तवर्ति तदल्पं भूय इतरत् । किंचाऽऽकाशेनाऽऽह्लयति चान्यमन्य आहूतश्चेतर आकाशेन शृणोत्यन्योक्तं च शब्दमन्यः प्रतिशणोत्याकाशे रमते क्रीडत्यन्योन्यं सर्वस्तथा न रमते चाऽऽकाशे वञ्चादिवियोग आकाशे जायते न मूर्तेनावष्टब्धे । तथाऽऽका- शमभिलक्ष्याङ्कुरादि जायते न प्रतिलोमम् । अत आकाशमुपास्स्व ।। १ ।। वायोः सकाशादाकाशो भूयानिति वक्तव्ये कथं तेजसो भूयानित्युक्तमत वायुँरिति । कारणत्वेऽपि कथमाकाशस्य वायुसहितात्तेजसो भूयस्त्वमित्याशङ्कयाऽऽह-- कारणं हीति | तेजसो वायुसहितादाकाशस्य भूत्रस्त्वं प्रश्नपूर्वकं प्रकारान्तरेण दर्शयति- कथमित्यादिना । इतश्चाऽऽकाशस्यास्ति भूयस्त्वमित्याह - किंचेति । तद्ब्रयस्त्वफल माह -- अत इति ॥ १ ॥ आह-- १ ठ. 'दिनीय' । २ ग. छ. उ. युमिति |