पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतटीकासवलितशांकरभाष्यसमेता- [ ७ सप्तम ध्याये स्मराद्वाय भूयोऽस्तीति तन्मे भगवान्त्री विति ॥ २ ॥ इति सप्तमाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ स्मरो वौवाऽऽकाशाद्भूयः । स्मरणं स्मरोऽन्तःकरणधर्मः । स आकाशा- दभूयानिति द्रष्टव्यं लिङ्गव्यत्ययेन । स्मर्तुः स्मरणे हि सत्याकाशादि सर्वमर्थ- वत्स्मरणवतो भोग्यत्वात् । असति तु स्मरणे सदस्यसदेव । सत्त्वफार्याभा- बात् । नापि सत्त्वं स्मृत्यभावे शक्यमाकाशादीनामवगन्तुमिश्यतः स्मरण. स्याऽऽकाशाद्भूयस्त्वम् । दृश्यते हि लोके स्मरणस्य भूयस्त्वं यस्मात्तस्माद्य- द्यपि समृदिता बहब एकस्मिन्नासीरनपविशेयुस्ते तत्राऽऽसीना अन्योन्यभा- पितमपि न स्मरन्तश्चेत्स्युनैव ते कंचन शब्दं शृणुयुस्तथा न मन्दीरन्मन्तव्यं चेत्स्मरेयुस्तदा मनवीरन्स्वान्न मन्त्ररिस्तथा न विजानीरन् । यदा चाव ते स्मरेयुर्मन्तव्यं विज्ञातव्यं श्रोतव्यं चाथ कृणुयुरथ मन्दीरन्नथ विजा- नीरन् । तथा स्मरेण वै मम पुत्रा एत इति पुत्रान्विजानाति स्मरेण पशून् । अतो भूयस्त्वात्स्मरमुपास्स्वेति । उक्तार्थमन्यत् ॥ १ ॥ २ ॥ इति सप्तमाध्यायस्य त्रयोदशः खण्डः || १३ ॥ नपुंसकलिङ्गं श्रुतं पुंलिङ्गत्वेन कथं व्याख्यातमित्याशङ्कय पुंलिङ्गोपक्रममाश्रित्याऽऽह्- लिङ्गव्यत्ययेनेति । कथं पुनः स्मरणस्यांऽऽकाशाभूयस्त्वमित्यः शङ्कय ।ऽऽह- स्मरणे हीति | अन्वषमुक्त्या व्यतिरेकं दर्शयति — असतीति | आकाशादे: स्मरणाभावेऽपि सत्त्वमङ्गीकृत्य भोग्यत्वाभावादानर्थक वमुक्तं संप्रत्यस्मरणे सत्त्वमेव नास्तीत्याह - नापीति । स्मरणस्य भूयरत्वमनुभबानुसारेण साधयति — दृश्यते हीति | हिशब्दार्थो यस्मादित्युक्तः | स्मरणाभावे श्रवण|द्यभावं व्यतिरेकमुक्त्वा तद्भवे तद्भावमन्वयमाह - यदेति । इतश्चास्ति स्मरणस्य भुयस्त्वमित्याह —तयेति । तद्भूयस्ले फलितमाह-अत इति ॥ १ ॥ २ ॥ इति सप्तमाध्यायस्य त्रयोदशः खण्डः ॥ १३ ॥ ( अथ सतमाध्यायस्य चतुर्दशः खण्डः । ) आशा वाव स्मराद्यस्याशेद्धो वे स्मरो मन्त्रा- नधीते कर्माणि कुरुते पुत्राश्च पशुश्वेच्छत १ क. ग. ङ. च. ड. वा आका । २ उ. रस्या | ३. रस्य | ४ क. ग. उ० "भावत्वान |