पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् | । कथयति - नामोपक्रममिति । प्रकृतश्रुतिवशोत्तदुप- प. ठक्रममेवाऽऽश्रित्याऽऽशा चान्ते यस्यास्ति तज्जगत्त- थेति विग्रहः । कार्यकारणत्वं क्वाचित्कनुपादानोपादेयत्वं निमित्तनैमित्तित्वमपि क्वाचित्क- मेव | उत्तरोत्तरभूयस्तया पूर्वस्माःपूर्वस्मान्नामादेरुत्तरोत्तरवागादिभूयस्त्वेनेति यावत् | स्मृति- निमित्तः सद्भावो यस्य तत्तथा । आश|ख्यै रशनापाशैः सर्वतो विपाशित मित्यत्र दृष्टान्त- माह — बिसमित्रेति । बिसशब्दो मृगालविषयः । यथोक्तं जगद्यस्मिन्नर्पितं स एष भूयानिति संबन्धः । सर्वस्य जगतस्तस्मिन्नर्पितत्वमेव दृष्टान्तद्वारा स्पष्टयति - येन चेति । सर्वतो व्यापिनेत्यस्यैव स्फुर्ट करणमन्तर्बहिर्गतेनेति । प्राणस्याऽऽशायाः सकाशाद्भूयस्त्वमा- काङ्क्षापूर्वकं समर्थयते—कथमित्यादिना |ङ्गानां व्यष्टीनां संघातः समुदायस्तद्रूपे समष्ट्यात्मनीति यावत् । उपाधितद्वतोरैक्यमभिप्रेन्य विशिनष्टि - प्रज्ञात्मनीति । तस्यै- वाथ्यात्ममधिभूतमधिदैवं चावस्थानं सूचयति - दैहिक इति । प्राणान्तरं व्यावर्तयति- मुख्य इति । यथोक्तेऽस्मिन्त्राणे सर्व समर्पितत्युित्तरत्र संबन्धः । प्रज्ञात्मनीति परमा- त्मोपाधित्वं प्राणस्योक्तं तदुपपादयति – यस्मिन्निति । तस्मिन्सर्वं समर्पितमिति पूर्ववत्सं- बन्धः । किमिति चक्षुरादिषु विद्यमानेषु मुख्य स्यैव प्राणस्य परमात्मोपाधिकत्वमुपगतमि त्याशङ्कय।ऽऽह—यश्चेति । प्राणस्येश्वरं प्रति सर्वाधिकारित्वे श्रुत्यन्तरं प्रमाणयति-- कस्मिन्निति | ईश्वरं प्रति प्राणस्यैयौपाधिकःचे हेवन्तरमाह — यस्त्विति । अत्रापि पूत्रैवदन्वयः । माणश्छायावदीश्वरमनुगच्छतीत्यत्र श्रुत्यन्तरं प्रमाणयति -- तद्यथेति । भृतमात्राः शब्दादयः पृथिव्यादयश्च विषयाः प्रज्ञामात्रासु शब्दादिबुद्धिषु तज्जन केन्द्रियेषु वैत्यर्थः । भवतु तासां प्राणेऽर्पितत्त्रं तथाऽपि कथं प्राणस्य च्छायावदीश्वरं प्रत्यनुगतिस्त- त्राऽऽह—स एप इति । कौषीतकिनां श्रुतिरिति शेषः । प्राणस्य यथोक्तविशेषणवैशि- ध्यमतःशब्दार्थः । व्याख्यातं भाग. नूद्यावशिष्टमंशं व्याकरोति — एवमिति । प्राणः प्राणन यातीत्यस्यार्थमाह — अत इति । सर्वास्प्रदत्वादिति यावत् | प्राणः प्राणेन याती- त्यादेः प्राणो ह्येवैतानि सर्वाणि भूतानीत्यन्तस्य तात्प संक्षिप्य कथयति - सर्व.. मिति । दातुर्देयस्य संप्रदानस्य च माणामिन्नत्वं प्रकटयति-प्राण इति । तदपीति दीयमानमुच्यते | स्वस्य संप्रदानस्य च प्राणाभिन्नत्वात्प्राणायैवेत्युक्तम् । प्राणस्य सर्वात्म- त्वमतःशब्दार्थः ॥ १ ॥ - पञ्चदशः खण्ड: १५] प्राणस्य सर्वास्पदत्वेन भ्यस्त्वं क्रमे यस्य जगतोऽस्ति तत्तथा स यदि पितरं वा मातरं वा भातरं वा स्व सारं वाऽऽचार्य वा बाह्मणं वा किंचिद्धशमिव १ ग. ट. 'शाभामोप' । क. ख. छ. ञ. ण. 'विदे' ।