पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदश खण्ड: १५ ] छान्दोग्योपनिषत् | ४२१ समासेति । अवयव विभजनमादिशब्दार्थः । तद्देहसंबद्धमियत्र तच्छब्दः ऋरपित्रादिविषयः । यद्यपि व्यक्तप्राणेष्वपि देहेषु पित्रादिशब्दो दृष्टस्तथाऽपि नासौ मुख्यः । तद्विषये - क्रूरक- मनुष्टानेऽपि शिष्टगर्हादृष्टेरिति भावः । उक्तान्वयव्यतिरेक फलमुपसंहरत-तस्मादिति ॥ ३॥ प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्वं सन्वान एवं विज्ञाननतिवादी भवति तं चेद्ब्रयुरतिवायसीत्यतिवायस्मीति पान्नापड्नु - बीत ॥ ४ ॥ इति समाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ तस्मात्माणो ह्येवैतानि पित्रादीनि सर्वाणि भवति चलानि स्थिराणि च । सवा एष प्राणविदेवं यथोक्तमकारेण पश्यन्फलतोऽनुभवन्नेवं मन्वान उपपत्ति- मिश्चिन्तयन्मेवं विजाननुपपत्तिमिः संयोज्यैवमेवोत निश्रयं कुर्वन्नित्यर्थः । मननविज्ञानाभ्यां हि संभूतः शास्त्रार्थो निश्चितो दृष्टो भवेत् । अत एवं पश्यन्न: तिवादी भवति नामाचाशान्तमतीत्य बदनशीलो भवतीत्यर्थः । तं चेद्ब्रयुस्तं यवमतिवादिनं सदा सर्वैः शब्देनमाचाशान्तमतीत्य वर्तमान प्राणमेव बदन्त्येवं पश्यन्तमतिबदनशीलमतिवादिनं ब्रह्मादिसम्बपर्यन्तस्य हि जगतः प्राण आत्माऽहमिति त्राणं यदि ब्रूयुरतिवाद्यसीति । बाढमतिवाद्यस्मीति ज्ञ्यान्नापह्नुीत | कस्माद्ध्यसावपहनुषीत । यत्प्राणं सर्वेश्वरमयमहमस्मीत्यात्म- त्वेनोपगतः ।। ४ ।। इति सप्तमाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ प्राणस्यैव पित्रादिसंज्ञकःचे किं स्यादित्याशङ्कयाऽऽह-तस्मात्प्राणो हीति | माणस्य भूयस्त्वमित्थं व्युत्पाद्य तद्विज्ञानफलमाह - सवा इति । प्राणविदतिवादी भवतीति संबन्धः । कथं प्राणवित्त्वमित्यपेक्षायामाह - एवमिति । सर्वात्मत्वं यथोक्तप्रकारः फलतोऽनुभवः स्वरूपत्वेन साक्षात्कारः । तदनुदर्शनेनैव प्राणविचे सियति सति किमिति मननविज्ञाने पृथगुपन्यस्येते तत्राऽऽह-मननविज्ञानाभ्यां हीति । उक्तान्वयव्यतिरेकाख्योपपत्तिसहक- लाद्वाक्याद्यत्प्राणविषयं ज्ञानं जायते तदत्र विज्ञानं विवक्ष्यते । तत्फलसाक्षात्करणं दर्शन. मिति भेदः । मननविज्ञाने विना दर्शनासंभवोऽतः शब्दार्थः । एवं मननादिद्वारेणेति यावत् । अतित्रादिग्वं व्युत्पादयति - नामादीति । नापहूनुवीतेत्युक्तं व्यक्ती करोति- १ द. णं ब्रू ।