पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ आनन्दागिरिकृतटीकासँवलितशांकरभाष्यसमेता- [ ७ सप्तमाध्याये- कस्मादिति । यद्यस्मादयं विद्वानात्मलेन सर्वेश्वरं प्राणोऽस्मीत्युपगतवांस्तस्मादपत्रे हेत्वभाबादात्मनोऽतिवादित्वं नापह्नुवीतेति(त्यर्थः) ॥ ४ ॥ इति सप्तमाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ ( अथ समाध्यायस्य षोडशः खण्डः । ) एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासि- तव्यमिति सत्यं भगवो विजिज्ञास इति ॥ १ ॥ इति सप्तमाध्यायस्य षोडशः खण्डः ॥ १६ ॥ स एप नारदः सर्वातिशयं प्राणं स्वमात्मानं सर्वात्मानं श्रुत्वा नातः परम स्तीत्युपरराम | न पूर्ववत्किमस्ति भगवः माणाद्भूय इति पत्रच्छ | यतस्तमेकं विकारानृतब्रह्मैविज्ञानेन परितुष्ट कृतार्थ परमार्थसत्यातिवादिनमात्मानं मन्य मानं योग्यं शिष्यं मिथ्याग्रहविशेषाद्विमच्यावयन्नाह भगवान्सनत्कुमारः । एष तु वा अतिवदति यमहं वक्ष्यामि न प्राणविदतिवादी परमार्थतः । नामाद्यपेक्षं तु तस्यातिवादित्वम् । यस्तु भूमारूपं सर्वातिक्रान्तं तस्वं परमार्थसत्यं वेद सोऽतिवादीत्यत आह – एप तु वा अतिवदति यः सत्येन परमार्थसत्यविज्ञा- नवत्तयाऽतिवदति । सोऽहं त्वां प्रपन्नो भगवन्सत्येनातिवदानि । तथा मां नियुनक्तु भगवान्यथाऽहं सत्येनातिवदानीत्यभिप्रायः । यद्येवं सत्येनातिवदितु- मिच्छाले सत्यमेव तु तावद्विजिज्ञा सितव्यमित्युक्त आह नारदः । तथाऽस्तु तर्हि सत्यं भगवो विजिज्ञासे विशेषेण ज्ञातुमिच्छेयं त्वत्तोऽहमिति ॥ १ ॥ इति सप्तनाध्यायस्य षोडशः खण्डः ॥ १६ ॥ अत्र प्राणान्तमुपदेशं श्रुःवा नारदस्य तूष्णींमावे किं कारणमित्याशङ्कायामाह -- एप इति । कथं तस्योपरतिरबगतेत्याशङ्कयाऽऽह स पूर्ववदिति । १ ग. व. ङ. च. उ. ड ढ ण. 'झज्ञा' | २ ख. ध. ञ. उ. ण. र्थवादी । ना' । ३ ङ. ड, ढ, सत्सत्य घ. च. उ. 'सत्यालवि' ।