पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशः खण्डः १७ ] छान्दोग्योपनिषत् | ४२३ १ किमिति तर्हि प्राप्तायाभुपेक्षायां स्वयंमेचाऽऽर्यो व्युत्पादयतीसाशङ्कय ऽऽह— - तमेव मिति । एतस्माज्जायते प्राण इति श्रुत्यन्तःप्राणस्य विकारत्वेनानृतत्वं वाचाऽऽरम्भ चिकारो नामधेयमित्युक्तम् । तस्मिन्ननृते प्राणे ब्रह्मणि विज्ञानं तेनेति यावत् । परितुष्टत्वे कथमकृतार्थत्वमित्य।शङ्कय मिथ्याज्ञान शालिवादित्याह – परमार्थेति । न च तस्योपेक्षा- ईत्वमित्याह—योग्यमिति | मिथ्याग्रहविशेषो नास्ति प्राणात्परमित्यभिमानः । कथं तर्हि प्राणविदोऽतिवादिःवमुक्तं तनाह – नामादीति | करतर्हि परमार्थतोऽतिवादी- त्याशङ्कचाऽऽह – यस्त्विति । सोऽतिवादीति यतः सनत्कुपारस्याभिप्रायोऽत एत्राऽऽ- हेति योजना | ननु नारदस्य नाद्यापि सत्यविज्ञानमुत्पन्नं कथं सत्येनातिवदानीति पृच्छति तत्राऽऽह — तथेति ॥ १ ॥ — इति सप्तमाध्यायस्य षेडशः खण्डः ॥ १६ ॥ ( अथ सप्तमाध्यायस्य सप्तदशः खण्डः । ) यदा वै विजानात्यथ सत्यं वदति नाविज्ञानन्सत्यं चदति विजानलेव सत्यं वदति विज्ञानं त्वेन विजि ज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ॥ १॥ इति सप्तमाध्यायस्य सप्तदशः खण्डः ॥ १७ ॥ यदा वै सत्यं परमार्थतो विजानातीदं परमार्थतः सत्यमिति, ततोऽवृत्तं विकारजातं वाचारम्भणं हित्वा सर्वविकारावस्थं सदैवैकं सत्यमिति तदेवाथ चदति यद्वदति । ननु चिकारोऽपि सत्यमेव | नामरूपे सत्यं ताभ्यामयं प्राण- प्राणा वै सत्यं तेषामेष सत्यम् " इति श्रुत्यन्तरात् । सत्त्यम॒क्तं । 66 · सत्यत्वं श्रुत्यन्तरे विकारस्य न तु परमार्थापक्षमुक्तं किं तहीन्द्रियविषयत्वापेक्षं सच्च त्यच्चेति सत्यमित्युक्तं तद्वारेण च परमार्थसत्र स्योपलब्धिर्विवक्षितति । माणा वै सत्यं तेषामेष सत्यमिति चोक्तम् । इहापि तदिष्टमेव । इह तु प्राण- विषयात्परमार्थसत्यविज्ञानाभिमानाद्व्युत्थाप्य नारदं यत्सदेव सत्यं परमार्थतो भूमाख्यं तद्विज्ञापयिष्यामीत्येप विशेषतते विवक्षितोऽर्थः । नाविजानन्सत्यं १ म. ट. मिति ह्युक' ।