पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतीकासंचलितशांकरभाष्यसमेता-[ ७ सप्तमाध्याये मननहेतुभूतां श्रद्धां व्याकरोति -- आस्तिक्येति ॥ १ ॥ इति सप्तम/ध्यायस्यैकोनविंशतितमः खण्डः ॥ १९ ॥ ( अथ सप्तमाध्यायस्य विंशतितमः खण्डः । ) यदा वै निस्तिष्ठत्यथ श्रद्दधाति नानिस्तिष्ठ- ञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रदधाति निष्ठा त्वेत्र विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञास इति ॥ १ ॥ इति सप्तमाध्यायस्प विंशतितमः खण्डः ॥ २० ॥ निष्ठा गुरुशुश्रूपादिस्तत्परत्वं ब्रह्मविज्ञानाय ॥ १ ॥ इति समाध्यायस्य विंशतितमः खण्डः ॥ २० ॥ श्रद्धाहेतुं निष्टां व्याचष्टे---निष्ठेति ॥ १ ॥ इति सप्तमाध्यायस्य विंशतितमः खण्डः ॥ २० ॥ ( अथ सप्तमाध्यायस्यैक विंशः खण्डः | ) यदा ये करोत्पथ निश्तिष्ठति नात्वा निस्ति ष्ठति कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञा- सितव्योति कृतिं भगवो विजिज्ञास इति ॥ १ ॥ इति सप्तमाध्यायस्यैकविंशः खण्डः ॥ २१ ॥ यदा वै करोति । कृतिरिन्द्रिय संयमश्चित्तैकाग्रतकरणं च । सत्यां हि तस्यां निष्ठादीनि यथोक्तानि भवन्ति विज्ञानावसानानि ॥ १ ॥ इति सप्तमाध्यायस्यैकविंशः खण्डः ॥ २१ ॥ । निष्ठानिदानं कृतिं विभजते – कृतिरिति । कथं पुनरेतेषामुत्तरतरं पूर्वस्य पूर्वस्य करणी भवति तत्राऽऽह -- सत्यां हीति ॥ १ ॥ इति सप्तम|ध्यांयस्यैकत्रिंशः खण्डः ॥ २१ ॥ १. ग. ङ. ट. आदरति । २ क. ब. ङ. ताकार | ३ क. ख. ज. ण, नि संभ | ४ स्व. छ. ञ, ण. 'तरं । ५ ख. छ. ञ. ण. वस्यका |