पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् | ( अथ सप्तमाध्यायस्य द्वात्रिंशः खण्डः । ) यदा वै सुखं लभतेऽथ करोति नासुखं लब्धा करोति सुखमेव लब्ध्वा करोति सुखं त्वेष विजि ज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ॥ १ ॥ द्वाविंशत्रयोविंशखण्डौ २२-२३ ] इति सप्तमाध्यायस्य द्वाविंशः खण्डः ॥ २२ ॥ साऽपि कृतिर्यदा सुर्ख लभते सुखं निरतिशय वक्ष्यमाणं लब्धव्यं मयेति मन्यते तदा भवतीत्यर्थः । यथा दृष्टफलखा कृतिस्तथेहापि नासुखं लब्ध्वा करोति । भविष्यदपि फलं लब्ध्वेत्युच्यते । तैदुद्दिश्य प्रवृत्त्युपपत्तेः । अथैदानीं कृत्यादिषूत्तरोत्तरेषु सत्सु सत्यं स्वयमेव प्रतिभासत इति न तद्विज्ञानाय पृथ- ग्यत्नः कार्य इति प्राप्तं तत इदमुच्यते | सुखं त्वेव विजिज्ञासितव्यमित्यादि । सुखं भगवो विजिज्ञास इत्यभिमुखतायाऽऽह ॥ १ ॥ इति समाध्यायस्य द्वाविंशः खण्डः ॥ २२ ॥ कृतिस्तर्हि कुतो भवतीति तत्राऽऽह - सापीति | यदा सुखं लभते तदा भवतीति संबन्धः । ननु सुखलाभस्येन्द्रियसंयमादिव्यतिरेकेणाभावात्कथं सुखलाभाधीना कृतिरित्या शङ्कयाऽऽह–सुखमिति । वक्ष्यमाणसुखलब्धव्त्वाभिमानादेव यथोक्ता कृतिः सिध्य- सीत्यर्थः । सुखं उब्ध्वा करोीत्येतद्दृष्टान्तेन साधयति- यथेति । दृष्टं फलं पुत्रपश्वादि तज्जन्यमुखोद्देशपूर्विका लोके कृतिर्दृष्टा तथाऽऽत्मन्यपि सुखं लब्धैत्र करोति न तु विना हृदुद्देशमित्यर्थः । नन्विन्द्रियाणां मनसश्च संयमपूर्वकं सुखं भवति तथा च कथं तल्लब्ध्वा करोतीत्युच्यते तत्राऽऽह- - भविष्यदपीति | उत्तरग्रन्थमाकाङ्क्षापूर्वकमुत्थापयति-- अयेत्यादिना ॥ १ ॥ इति सप्तमाध्यायस्य द्वाविंशः खण्डः ॥ २२ ॥ ( अथ सप्तमाध्यायस्य त्रयोविंशः खण्डः | ) यो वै भूमा तत्सुखं नाले सुखमस्ति भूमैव सुख भूमा त्वेन विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ॥१॥ इति सप्तमाध्यायस्य त्रयोविंशः खण्डः ॥ २३ ॥ १. क. तत्तदु ।