पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ आनन्द गिरिकृतटीका संवलितशांकरभाष्यसमेल - [9 सप्तभाध्याये यो वै भूमा महन्निरतिशयं वह्निति पर्यायास्तत्सुखम् । ततोऽर्वाक्सातिश- यत्वादल्पम् । अतस्तस्मिन्नल्पे सुखं नास्ति | अल्पस्याधिकलृष्णा हेतुत्वात् । तृष्णा च दुःखवीजम् । न हि दुःखबीजं सुखं दृष्टं ज्वरादि लोके । तस्माद्युक्ते नाल्पे सुखमस्तीति । अतो भूमैत्र सुखम् । तृष्णादि दुःखवीजत्वासंभवाद् भूम्नः ॥ १ ॥ इति सप्तमाध्यायस्य त्रयोविंशः खण्डः ॥ २३ ॥ - भूम्नोऽर्वागपि वैषयिकं सुखमस्तीत्याशङ्कयाऽऽह-ततोऽर्वागिति । कथमस्पत्वेऽपि सुखत्वं वार्यते तत्रा|ऽऽह - अल्पस्येति । दुःखरूषां तृष्णां प्रत्यास्य सुखस्य हेतुत्वेऽपि कथं स्वयं सुखं न भवतीत्याशङ्कयाऽऽह-न हीति | अल्पस्य सुख दुःखान्तर्भावे सिद्धे फलितमाह - अत इति ॥ १ ॥ इति सप्तमाध्यायस्य त्रयोविंशः खण्डः ॥ २३ ( अथ सतमध्यायस्य चतुर्विंशः खण्डः । ) यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानानि स भूमाऽथ यत्राम्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजा- नाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्म- ५ स भगयः कस्मिन्प्रतिष्ठित इति स्वे महिनि यदि वा न महिनीति ॥ १ ॥ किलक्षणोऽसौ भूमेत्याह- यत्र यस्मिभूम्नि तत्त्वे नान्यद्रष्टव्यमन्येन करणेन द्रष्टाऽन्यो विभक्तो दृश्यात्पश्यति तथा नान्यच्छृणोति | नामरूपयोरेवान्तर्भावाद्विषयभेदस्य तद्ग्राहकयोरेवेह दर्शनश्रवणयोर्ग्रहण मन्येषां चोपलक्षणार्थत्वेन | मननं त्वत्रोक्तं द्रष्टव्यं नान्यन्मनुत इति । प्रायशो मननपू- वैकत्वाद्विज्ञानस्य | तथा नान्यद्विजानाति । एवंलक्षणो यः स भूना | किमत्र शसिद्धान्यदर्शनाभावो भूम्युच्यते नान्यत्पश्यतीत्यादिना । अथान्यन्न पश्यत्या- स्मानं पश्यतीत्येतत् । किंचातः । यद्यम्पदर्शनाय मात्र मात्रमित्युच्यते तदा द्वैतसंप् ।