पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशः खण्डः २४ ] छान्दोग्योपनिषत् | ४२९ वहारविलक्षणो भूमेत्युक्तं भवति । अथान्यदर्शनविशेषप्रतिषेधेनाऽऽत्मानं पश्ष- तीत्युच्यते तदैकस्मिन्ने क्रियाकारकफलभेदोऽभ्युपगतो भवेत् । यद्येवं को ८८ दोष: स्यात् । नन्वयमेव दोषः संसारानिवृत्ति: । क्रियाकारकफलभेदो हि संसार इति । आत्मैकत्व एव क्रियाकारकफलभेदः संसारविलक्षण इति चेत् । न | आत्मनो निर्विशेषैकत्वाभ्युपगमे दर्शनादिक्रियाकारकफल भेदाभ्युपगमस्य शब्दमात्रत्वात् । अन्यदर्शनाद्यभावोक्तिपक्षेऽपि यत्रेत्यन्यन्न पश्यतीति च विशे- पणे अनर्थके स्यातामिति चेत् | दृश्यते हि लोके यत्र शून्ये गृहेऽन्यन्न पश्यती- त्युक्ते स्तम्भादीनात्मानं च में न पश्यति गम्यते । एवमिहापीति चेत् । न । तत्त्वमसीत्येकत्वोपदेशाधिकरणाधिकर्तव्यभेदानुषपः । तथा सदेकमेवा. द्वितीयं सत्यमिति षष्ठे निर्धारितत्वात् । “ अदृश्येऽनात्म्ये " “ न संहशे तिष्ठति रूपमस्य " विज्ञातारमरे केन विजानीयात् " इत्यादिश्रुतिभ्यः खात्मनि दर्शनाय नुपपत्तिः । यत्रेति विशेषणमनर्थकं प्राप्तमिति चेत् । न । अविद्याकृतभेदापेक्षत्वात् । यथा सत्यैकत्वाद्वितीयत्वबुद्धिं प्रकृतामपेक्ष्य सदे- कमेवाद्वितीयमिति संख्यामप्युच्यते । एवं भून्येकस्मिन्नेव यत्रोत विशे- पणम् | अविद्यावस्थायामन्यदर्शनानुवादेन च सूनस्तदभावत्वलक्षणस्य त्रिव क्षितत्वान्नान्यत्पश्यतीति विशेषणम् | तस्मात्संसारव्यवहारो भूमि नास्तीति समुदायार्थ: । अथ यत्रा विद्याविषयेऽन्योऽन्वेनान्यत्पश्यति तदल्पमविद्या- कालभावीत्यर्थः । यथा स्त्रमदृश्यं वस्तु प्राक् मँवोधात्तत्कालभावति तद्वत् । तव एच तन्मयै विनाशि स्वमवस्तुदेव तद्विपरीतो भूमा यस्तदमृतम् । तच्छ- ब्दोऽमृतत्त्रपरः । स तोवलक्षणो भूमा हे भगवन्कस्न्प्रितिष्ठित इत्युक्तवन्तं नारदं प्रत्याह सनत्कुमारः | स्त्रे महिनीति स्त्र आत्मीये महिम्नि माहात्म्ये विभूतौ प्रतिष्ठिती भूमा । यदि प्रतिष्ठामिच्छसि कचिद्यदि वा परमार्थमेव पृच्छसि न महिस्त्यपि प्रतिष्ठित ति ब्रूमः | अप्रतिष्ठितोऽनाश्रितो भूमा क्वचि दपीत्यर्थः ॥ १ ॥ भूम्नः सविशेषःचं निर्विशेषत्वं वेति प्रश्नपूर्वकं निर्विशेषत्वं निर्धारयति – किमित्या- दिना । नान्यच्छृणोति स भूनेति संबन्धः । किमिति स्पर्शनादिष्वपि सत्सु दर्शनश्रवण- १ ख. ग. ञ. ट. ड. ण च प° । २ ड ढ ननु प | ३ ख. च. ञ. ण. त्म्येने रुक्तेऽनियने न । ४ च. उ. ड. सत्येक° | ५ च, ठ. 'बल' | ३ क. ग. ट. मतियों म ५ क. इताबोचाम | अ ।