पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५ तृतीयः खण्डः ३] छान्दोग्योपनिषत् । स्थित्यादिधर्मकाणीत्यर्थः । उद्गीथाक्षराणीयुक्तं विशेषणानुबादेन स्फुटपति-उद्गीथ इति । उद्गीथ इत्येवंरूपस्य नान्नोऽक्षराणीति यावत् ॥ ७ ॥ ___ अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत येन साना स्तोष्यनस्यात्तत्सामोपधावेत् ।। ८ ॥ अथ खल्विदानीमाशीःसमृद्धिराशिषः कामस्य समृद्धिर्यथा भवेत्तदुच्यत इति वाक्यशेषः । उपसरणान्युपसतैव्यान्युपगन्तव्यानि ध्येयानीत्यर्थः । कथम् , इत्युपासीत , एवमुपासीत । तद्यथा--येन साम्ना येन सामविशेषेण स्तोष्यन्स्तुति करिष्यन्स्याद्भवेदुगाता तत्सामोपधावेदुपैसरेच्चिन्तयेदुत्पत्त्या- दिभिः ॥ ८॥ वागादिसमृद्धिफलकमुपासनमुपदिश्य फलसमृद्धिर्येन प्रकारेण भवति तत्प्रकारं ज्ञानं सर्वकाम्योपासनशेषभूतं प्रासङ्गिक विधीयत इत्याह- अथ खल्विति । वागादिसमृ- द्धिफलकोपासनानन्तर्यमथशब्दार्थः । वक्ष्यमाणोपासनानां सर्वकाम्योपासनाशेषत्वद्योतनार्थ खल्वित्युक्तम् । प्रासङ्गिकत्वं दर्शयति-इदानीमिति । कामशब्दः फलविषयः । तच्छन्दः प्रकारज्ञानपरामर्शी । उच्यते विधीयत इत्यर्थः । ध्यानप्रकारं प्रश्नपूर्वकं विशद- यति-कथमित्यादिना । इतिशब्दार्थमभिनयति--एवमिति । एवंशब्दार्थमुदाह- रणनिष्ठतया स्पष्टयति--- तद्यथेति । उत्पत्त्यादिभिरित्यादिशब्देन च्छन्दोदेवतादि गृह्यते ॥ ८॥ यस्यामृचि तामृचं यदायं तमृर्षि यां देवताम- भिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ ९ ॥ यस्यामृचि तत्साम तां चमपधावेदेवतादिभिः । यदायं साम तं चर्षिम् । यां देवतामभिष्टोष्यन्स्यात्तां देवतामपधावेत ॥ ९॥ -देवतादिभिरियादिपदेनाऽऽयादिग्रहः ॥ ९॥ येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेयेन स्तोमेन स्तोष्यमाणः स्यात्त स्तोममुपधावेत् ॥ १० ॥ येन च्छन्दसा गायत्र्यादिना स्तोष्यनस्यात्तच्छन्द उपधावेत् । येन स्तोमैन स्तोष्यमाणः स्यात् । स्तोमाङ्ग-फलस्य कर्तगामित्वादात्मनेपदं स्तोष्यमाण इति । तं स्तोममुपधावेत् ॥ १० ॥ गायत्र्यादिनेत्यादिपदमुष्णिगनुष्टःबृहत्यादिसंग्रहार्थम् । त्रिवृत्पञ्चदशः सप्तदश एक- १ क. घ. ट. पस्मरे'।