पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्विंशः खण्डः २४ ] छान्दोग्योपनिषत् | ४३१ - विशेषणं च भूम्नि न विरुध्यते दर्शनाद्यविषयत्वलक्षणस्य भूम्नो लक्षणस्य विवक्षितत्वादि- यह — अविद्येति । लक्षणवाक्यार्थमुपसंहरति -- तस्मादिति । दर्शन दिसकलसां- सारिकव्यवहाराभावोपलक्षितं तत्त्वं भूमेत्यर्थः । अथ यत्रेत्यादिवाक्यं व्याकरोति- अथेति । परिच्छिन्नस्य।विद्यःकालभावित्वं दृष्टान्तेन विवृणोति -- यथेति । तत एव परिच्छिन्नवा. दिति यावत् । कथं तदमृतमिति भूमि तच्छन्दप्रयोगस्तत्राऽऽह -- तच्छन्द इति । भूम्नः सुखत्ववचनात्तस्य चाऽऽश्रयं पृच्छति - स तहीति । व्यवहारदृष्ट्या प्रश्नो वस्तु- दृष्टया वेति विव.ल्प्याऽऽद्यं प्रत्याह-- इत्युक्त वन्तमिति । द्वितीयमनूय निराकरोति यदीति ।। १ ।। गोअश्वमिह महिमेत्याचक्षते हस्तिहिरेण्यं दास- भार्थं क्षेत्रण्यायतनानीति नाहमेवं ब्रवीमि नवी- मीति होवाचान्यो ह्यन्यस्मिन्नतिष्ठित इति ॥ २ ॥ इति सप्तमाध्यायस्य चतुर्विंशः खण्डः ॥ २४ ॥ यदि स्वमहिम्नि प्रतिष्ठितो भूमा कथं प्रतिष्ठ उच्यते । शृणु । गोअश्वा- दीह महिमेत्याचक्षते | गात्रश्चाश्वाच गोअश्वं द्वंद्वैकवद्भावः । सर्वत्र गवाश्वादि महिमेति प्रसिद्धम् | तदाश्रितस्तत्प्रतिष्ठथैत्रो भवति यथा नाहमेवं स्वतोऽन्यं महिमानमाश्रितो भूमा चैत्रवदिति ब्रवीम्यत्र हेतुत्वेनान्यो ह्यन्यस्मिन्प्रतिष्ठित इति व्यवहितेन संबन्धः । किंत्वेवं श्रीमति होवाच स एवेत्यादि || २ || इति सप्तमाध्यायस्य चतुर्विंशः खण्डः ॥ २४ ।। पूर्वापरविरोधमाशङ्कय परिहरति - - यदीत्यादिना | भुम्नः स्त्रतोऽन्यस्मिन्प्रतिष्ठित त्वाभावोऽत्रेयुच्यते तत्रान्यो हीत्यादिवाक्-स्प हेतुत्वेन हेतुना तेन व्यवहितेन नाहमेचं अत्रीमीयस्य संबन्ध इति योजना । कथं तर्हि ब्रवीति भवानित्याशङ्कयाऽऽह-- त्रित ॥ २ ॥ इति सप्तमाध्यायस्य चतुर्विंशः खण्डः ॥ २४ ॥ १ ख. ञ. रण्यदा | २ क ख ग घ. ज. ट ठ . त . "ति ह ह हो° । ३ ग. घ. ङ. च. छ. ट. ठ, ड, ढ, ‘हिम्म' । ४ क. ग. ट ठ ड ढ. 'तिठो भू° । ५. तिष्ठित इत्यु च्य° | ६ ख ग. ङ. च. ट. ठ, ड, ढ, ण. 'दिमीह' ।