पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतवी कासँवलितशांकरभाष्यसमेता- [७ सप्तमाध्याये - 4 ( अथ सतमाध्य यस्य पञ्चविंशः खण्डः । ) स एवावास उपरिष्टात्स पश्चात्स पुरतात्स दक्षिणतः स उत्तरतः स एवेदर सर्वमित्यथातोऽ- हंकारादेश एवाहमेवाधस्तादहमुरिष्टादहं पश्चा दहं पुरस्तादई दक्षिणतोऽहमुत्तरतोऽहमेवेदर सर्व- मिति ॥ १ ॥ कस्मात्पुनः क्वचिन्न प्रतिष्ठित इत्युच्यते । यस्मात्स एव भूमाऽधस्तान तद्व्यतिरेक्रेणान्यद्विद्यते यस्मिन्प्रतिष्ठितः स्यात् । तथोपरिष्टादित्यादि समानम् | सात यूम्नोऽन्यस्मिन्यूमा हि प्रतिष्ठितः स्यान्नं तु तदस्ति । स एव तु सर्वम् । अतस्तस्मादसौ न क्वचित्प्रतिष्ठितः । यत्र नान्यत्पश्यतीत्यधिकरणाधिकर्तव्यता- निर्देशात्स एवाधस्तादिति च परोक्षनिर्देशाद्रष्टवादन्यो भूमा स्यादित्या- शङ्का कम्यचनमा भूदित्यथा तोऽनन्तरमहंकारादेशोऽहंकारेणाऽऽदिश्यत इत्यहं- कारादेशः । द्रष्टुरनन्यत्वदर्शनार्थं भूमेव निर्दिश्यतेऽहंकारेणा मेवाधस्तादि- त्यादिना ॥ १ ॥ अवतारितमेव वाक्यं प्रश्नपूर्वकमवतार्थ व्याचष्ठे–कस्मादित्यादिना । उक्तमेवार्थं व्यतिरेकद्वारा वृणोति–सतीति । अहंकारात्मोपदेशस्वाभिप्रायमाह--यत्रेति । कोऽसाबहंकारेणाऽऽदिश्यत इझ्याशाय प्रयोजनानुवादपूर्वकमाह - द्रष्टुरिति ॥ १ ॥ अथात आत्मादेश एवाऽऽत्मैवा वस्तादात्मोपरिष्टा दात्मा पश्चादात्मा पुरस्तादात्ला दक्षिणत आत्मोत्तरत आत्मैवेदश सर्वमिति सवा एष एवं पश्यलेवं मन्यान एवं विजाननात्मरतिरात्मकीड आत्ममिथुन आत्मा- नन्दः स स्वराभवति तस्य सर्वेषु लोकेषु कामचारी भवति । अथ येऽन्यथाऽतो विदुरन्यराजानस्ते क्षम्य- १ ढ. 'ति हि भू' ।