पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृंतटीकासंवलितशांकरभाष्यसमेता -[ ७ सप्तमाध्याये - । - विजातीयभेदशून्यत्वमुच्यते । रतिक्रीडयोवान्तरभेदं दर्शयति - देहमात्रेति | क्रीडा बाह्य- साधनेत्यत्र लोकसंमतिमाह -- लोक इति । देहस्य जीविते च भोगत्यागयोश्च निमित्तं बाह्यत्रस्तु तत्र सर्वत्र निरपेक्षो यदृच्छाला भेष्वासङ्गवर्जितो विद्वानियाह – देहेति । जवि- नमुक्तिमुक्त्वा विदेहमुक्ति दर्शयति - - स इति । स्वराज्यं निमित्तीकृत्य फलान्तरमाह-- यत एवमिति | स्वार उपसर्वलोककामचारयोस्तापर्यमाह - प्राणादिष्विति । यावन्नम्नो गतं तत्रांस्य यथाकामचारो भवतीत्यादिना परिच्छिन्नं परतन्त्रं च पूर्वभूमिषु फलमुक्तमत्र तु परमानन्दप्राप्तौ तद्वय।वृत्तिरुच्यते न तु सोपाधिकं रूपमित्यर्थ: । फलप्रदर्शनद्वारेण रतुवा विद्यामविद्वन्निन्दाद्वाराऽपि तां स्तौति- अर्थत्यादिना | ते क्षय्यलोका भवन्तीति संबन्धः । भेददार्शनां विनाशिफलत्वे हेतुमाह --भेददर्शनस्येति । परिच्छिन्नस्य विनाशित्ववचनं तस्मादिति परामृशति ॥ २ ॥ इति सप्तमाध्यायस्य पञ्चविंशः खण्डः ॥ २५ ॥ ( अथ सप्तमाध्यः यस्य षड्विंशः खण्डः । ) तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशाऽऽ- त्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावा- वात्मतोऽन्नम.त्मतो बलम मतो विज्ञानमा त्मतो ध्यानमात्मनश्चित्तमात्मनः संकल्प आत्मतो मन अत्मतो वागात्मतो नामाऽऽ- त्मतो मन्त्रा आत्मतः कर्माण्यात्मत एवेद सर्वमिति ॥ १ ॥ mp ४३४ तस्य ह वा एतस्येत्यादि स्वाराज्यं प्रातस्य प्रकृतस्य विद्रुप इत्यर्थः । प्राक्सदात्मविज्ञानात्स्त्रात्मनोऽन्यस्मात्सतः प्राणादे नमान्तस्योत्पत्तिमलयावभूतां सदात्मविज्ञाने तु सतीदानी स्वात्मत एव संवृत्तौ तथा सर्वोऽप्यन्यो व्यवहार आत्मत एव विदुषः ॥ १ ॥ उक्तविद्यास्तुत्यर्थमेव विदुषः स्रष्टृत्वमाह - तस्येति । तथा विदुषः स्रष्टृत्वव्यबहार वदित्यर्थः । क्रीडादिरन्यो व्यवहारः || १ ||