पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ८. प्रथमः खण्डः १ ] छान्दोग्योपनिषत् । ४३७ रशुद्धिफलमाह--तस्यामिति । अन्तःकरणशुद्धिफलं कथयति- - सज्वेति । स्मृति- लाभफलं दर्शयति—तस्यां चेति । भवतीत्याहारशुद्धिरपेक्षितेति शेषः | प्रकृतवाक्य- तात्पर्यमुपसंहर.त-- यत इति । तस्मै मृदितकापायायेत्यादिवाक्यमत्रतार्थ व्याचष्टे-- सर्वमिति । आगतिं गतिमायव्ययौ | तस्यै वैशिष्ट्यान्तरमाह - तमेवेति ॥ २ ॥ इति इति सप्तमाध्यायस्य षड्विंशः खण्डः ॥ २६ ॥ श्रीपरमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानकृतायां छान्दोग्यभाष्यटी कायां सप्तमोऽध्यायः समातः ॥ ७ ॥ ( अथाष्टमाध्यायस्य प्रथमः खण्डः । ) यद्यपि दिग्देशकालादिभेदशन्यं ब्रह्म सदेकमेवाद्वितीयमात्मैवेदं सर्वमिति षष्टस तम योरगतं तथाऽपीह मन्दबुद्धीनां दिरंदेशादि भेदवट्टस्त्वित्येवं भाविता बुद्धिर्न शक्यते सहसा परमार्थविषया कर्तुमित्य न धिगम्य च ब्रह्म न पुरुषार्थ - सिद्धिरिति तदधिगमाय हृदय पुण्डरीकदेश उपदेष्टव्यः । यद्यपि सत्सम्यक्प्रत्ययै- कविषयं निर्गुणं चाऽऽत्मत्वं तथाऽपि मन्दबुद्धीनां गुणवत्वस्येष्टत्वात्सत्यका- सादिगुणवत्वं च वक्तव्यम् । तथा यद्यपि ब्रह्मविदां स्वयादिविषयेभ्यः स्वयं- मेवोपरयो भवति तथाऽप्य नेकजन्म विषय सेवाभ्यास जनिता विषयविषया तृष्णा न सहसा निवर्तयितुं शक्यत इति ब्रह्मचर्यादिसाधनविशेषो विधातव्यः । तथा यद्यप्याकविगतगम नगन्तव्याभावादविद्या दिशेष स्थिति निमितक्षये गगन इव विद्युदुद्भूत इव वायुमेन्धन इवाग्निः स्वात्मन्येव निवृत्तिस्तथाऽपि गन्तृ- गमनादिवासितयुद्धानां हृदयदेशगुणविशिष्ब्रह्मोदासकानां मूर्धन्यया नाड्या गतिर्वक्तव्येत्यष्टमः प्रपाठक आरभ्यते । दिउदेशगुणगतिफलभेदशून्यं हिं पर- मार्थसदद्वयं ब्रह्म मन्दबुद्धीनामसदिव प्रतिभाति । सन्मार्गस्थास्तावद्भवन्तु ततः शनैः परमार्थसदपि ग्राहयिष्यामीति मन्यते श्रुतिः । - हरिः ॐ । अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं त द्वाव विजिज्ञासितव्यमिति ॥ १ ॥ ण. १ क. °स्य च वै° । २ खं. व. ञ. 'ग्देशकाल दे' । ३ क. ग. ङ. च. ट, ङ, टु, "या" 1