पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [८ अष्टमाध्याये- C अथानन्तरं यदिदं चक्ष्यमाणं दहरमल्पं पुण्डरकिं पुण्डरीकसदृशं वेश्मेव वेश्म द्वारपालादिमत्त्वात् । अस्मिन्ब्रह्मपुरे ब्रह्मणः परस्य पुरं राज्ञोऽनेक प्रकृतिमद्यथा पुरं तथेदमनकेन्द्रियमनव॒द्धिभिः स्वास्यर्थकारिभिर्युक्तमिति ब्रह्मपुरम् । पुरे च देश्म राज्ञो यथा तथा तस्मिन्ब्रह्मपुरे शरीरे दद्दरं वेश्म ब्रह्मण उपलब्ध्यधिष्ठान- नित्यर्थः । यथां विष्णोः शालग्रामः | अस्मिन्हि स्वविकारशुङ्गे देहे नामरूप व्याकरणाय प्रविष्टं सदाख्यं ब्रह्म जीवेनाऽऽत्मनेत्युक्तम् । तस्मादस्मिन्हृदयपु- ण्डरीके वेश्मन्युपसंहृतकरणैर्वाह्यविषय विशेषतो ब्रह्मचर्य सत्यसाधनाभ्यां युक्तैर्वक्ष्यमाणं गुणवद्धचायमानैर्ब्रह्मोपलभ्यत इति प्रकरणार्थ: । दहरोऽवतरोऽ- रिमन्दहरे वेश्मनि वेश्मनोऽल्पत्वात्तदन्तर्वर्तिनोऽल्पतरत्वं वेश्मनः । अन्तराकाश आकाशाख्यं ब्रह्म । आकाशो वै नागति हि वक्ष्यति । आकाश इवाशरीरत्वा- सक्ष्त्व सर्वगत्वसामान्याच्च । तस्मिन्ना का शाख्ये यदन्तर्मध्ये तदन्वेष्टव्यम् । तद्भाव तदेव च विशेषेण जिंज्ञासितव्यं गुर्वाश्रय श्रवणायुपायैरन्त्रिष्य च साक्षा- त्करणीयमित्यर्थः ॥ १ ॥ ४३८ पूर्वरिमन्नध्यायद्वये निर्विशेषमात्मतत्वमनवच्छिन्नं सदानन्देकतानमावेदितं तथा चोपनि- पदारम्भे चरितार्थे किमवशिष्यते यदर्थमध्यायान्तरमित्याशङ्कघाऽऽह — यद्यपीति । कर्तु. मिति तदधिगमाय विशिष्टो देश उपदेष्टव्य इति संबन्धः । मन्दबुद्धीनां तर्हि परमार्थवस्तुनो द्वाणोऽधिगतिरपेक्षितेत्यर्थः । न केवलं मन्दाधिकारिणां ब्रह्माधिगमशेषत्वेन हृदयदेशोपदेश एवात्र कर्तव्यः किं तु पूर्वत्रानुक्त गुणाद्यर्थान्तरोपदेशश्च कार्य इत्याह -- यद्यपीति । अक्- शिष्टमर्थान्तरमुपदेष्टव्यमन्वाचष्टे - तथेति । मन्दधियां ब्रह्मधीशेषत्वेन देशविशेषवद्भुणविशेष- बच्च ब्रह्मचर्यादिसाधनविशेषो विधातव्य इति संबन्धः । शब्दोत्थब्रह्मज्ञानवतां विधि विनाऽपि विषयःमुख्यसंभवाकिं विधिनेत्याशङ्कयाऽऽह- यद्यपि ब्रह्मविदामिति । यथा साधन- विशेषो वक्तव्योऽवशिष्यते तथोपासकानां गतिश्च वक्तव्येत्यवशिष्टमर्थान्तरमाह -तथेति । एकत्वदर्शिनां गत्रादिसर्वभेदप्रत्यँयास्तमयाद विद्या विशेषस्य देहस्थितिनिमित्तस्य क्षये सति १ क. 'था हि वि” । २ ख. ञ. ण णबुद्धचा ध्याय ३ मत्वात्सर्वं॰ । ४ ठ॰ तत्वादिसा'। '९ ख. छ. ञ. प. तु सर्व | ६ क. ग.ट. 'ब्दोक्त | ७ ख. ग. छ. ञ. ट. ण. "त्यस्त" |