पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः खण्ड: १ ] छान्दोग्योपनिषत् ।जिना ४३९ OPE निवृत्तिसंभषात्कुतो गतिर्चत्तव्येत्याशङ्कयाऽऽह – यद्यप्यात्मैकत्वविदामिति । अधि द्यादिशेषस्थितिनिमित्तक्षये स्त्रात्मन्येव निवृत्तिरित्युत्तरेण संबन्धः । स्वात्मनिर्वाणेऽपि कृत- व.रूपल्यागेन स्वाभाविक स्वरूपःवस्थान मित्र दृष्ट तानाह – गगन इवेति । अनेकोद - हरणोपादानं बुद्धिसौकर्यार्थम् । उक्तमेवाध्यायतात्पर्य संक्षिष्य दर्शयति – दिग्दशीत । दिशा देशेन गुर्गैर्गत्या फलभेदेन च शुन्यं तदनवच्छिन्नमिति यावत् । तस्य दिगाद्यनव- च्छिन्नत्त्रे हेतुमाह—अद्वयमिति । तर्हि तेषां भ्रमापोहार्थं परमार्थसदद्वयं ब्रह्म प्र.ह. यितव्यं किमित्यन्यथोपदिश्यते तत्र ऽऽह— – सन्मार्गस्था इति । अभ्यायतात्पर्यं संक्षेप- विस्तराभ्यां दर्शयित्वा श्रुय़क्षराणि व्याकरोति — अथेत्यादिना । उत्तबुद्धीन्प्रति निर्विशेषब्रह्मोपदेशानन्तरं मन्दबुद्धीप्रति सविशेषमुपदिश्यते ब्रह्मेत्यर्थः । तत्र ताकदुपास्या- यतनं निर्दिशति—यदिदमिति | हृदयपुण्डरीकस्य वेश्मसादृश्ये हेतुमाह — द्वारपा लादीति । तस्य हवा एतस्य हृदयस्थ पञ्च देवसुपय इत्यादिश्रुतेरुत हेनुसिद्धिः । तस्याऽऽश्रयं दर्शयति- अस्मिन्निति । शरीरस्य ब्रह्मपुरःवं दृष्टान्तेन साधयति — राज्ञ इति । तत्रोक्तं वेश्म दृष्टान्तेन स्पष्टयति — पुरे चेति । कथं पुनः सर्वगतस्य निरवयवस्य ब्रह्मणो यथोक्तवेश्मनिष्ठत्त्रमित्याशङ्कयाऽऽह- - ब्रह्मण इति । ननु संसा- रियो ब्रह्मातिरिक्तस्य स्वकर्मोपार्जितेन शरीरेण स्वामित्वसंबन्धो न ब्रह्मणस्तदसंबन्धैिनः कथं तत्रोपलब्धिरत आह— अस्मिन्हीति | ब्रह्मणो जीवात्मना सृष्टे कार्ये जलार्कबत्प्रवेशे हृदयपुण्डरीकस्य ब्रह्मोपलब्ध्यविष्ठानत्वं पूर्वोक्तमविरुद्धमित्याह --तरमादिति । अन्तरा- काशस्यात्यल्पतरत्वे हेतुमाह - - वेश्मन इति । आकाशशब्दस्य भूतःकाशविषयःवं व्यावर्तयति--आकाशाख्यमिति । कथं वाक्यशेषेऽप्य काशशब्दो - - तत्राऽऽह--अ.काश इवेति । तस्मिन्यदन्तरतदाश्रयेण सहान्वेष्टव्यं तस्मिन्वा स्त्रे महिम्न यदन्तस्तद।काश|ख्यं ब्रह्म तदन्वेष्टव्यं तस्मिन्वा हृदयपुण्डरीकावच्छिन्ने नभसि यदन्दरा. काश|ख्यं ब्रह्म तदन्वेष्टव्यमिति योजना ॥ १ ॥ तं चेदव्युर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र वियते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ २ ॥ तं देवमुक्तवन्तमाचार्य यदि मस्मिन्ब्रह्मपुरे परिच्छिन्भेन्तर्दहरं पुण्डरीकं वेश्म ततोऽप्यन्तैरल्पतर ब्रूयन्तेवासिनश्चोदयेयुः कथं, यदिद १ १ ख. छ. ञ. ग. 'र्थ | २. ग.. ' ३तरालय |