पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[१ प्रथमाध्याये- विंशः प्रसिद्धः सोमयागे स्तोमः । आत्मनेपदप्रयोगप्रतिपन्नमर्थमाह--स्तोमाथेति ।। यत्र कर्तगामि फलं तत्राऽऽत्मनेपदं प्रयुज्यते, प्रकृते च स्तोष्यमाण इत्यात्मनेपदं दृश्यते, तस्मादेतत्फलस्य कर्तृगामित्वं गम्यते । अन्यथा पूर्वोत्तरयोरिव परस्मैपदप्रयोगप्रसङ्गादि- त्यर्थः ॥ १०॥ यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ ११॥ यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेदाधिष्ठात्रादिभिः ॥ ११ ॥ या दिशमभीत्यभिव्याप्येत्यर्थः । स्तोष्यन्देवताविशेषमिति शेषः । अधिष्टातृशदेनेन्द्रा दयो गान्ते । आदिपदं तत्तद्दिगवस्थितासाधारणधर्मसंग्रहार्थम् ॥ ११ ॥ आत्मानमन्तत उपमृत्य स्तुवीत कामं ध्यायन्न- प्रमत्तोऽयोशो ह यदस्मै स कामः समृध्येत य- कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १२॥ इति प्रथमाध्यायस्य तृतीयः खण्डः ॥३॥ - आत्मानमदगातों स्वरूपं गोत्रनामादिभिः सामाँदीक्रमेण स्वं चाऽऽत्मान- मन्ततोऽन्त उपसृत्य स्तुवीत । कामं ध्यायनप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः प्रमादमकुर्वस्ततोऽभ्याशः क्षिप्रमेव ह यद्यत्रास्मा एवंविदे स कामः समुध्येत समृद्धिं गच्छेत् । कोऽसौ, यत्कामो यः कामोऽस्य सोऽयं यत्कामः संस्तुवी- तेति । द्विरुक्तिरादरार्थी ॥ १२ ॥ इति प्रथमाध्यायस्य तृतीयः खण्डः ॥ ३॥ आत्मानं स्वरूपं गोत्रादिभिरुपसृत्योद्गाता स्तुवीतेति संबन्धः । नामादिभिरित्यादिश. ब्देन वर्णाश्रमादिग्रहणम् । अन्तत इत्यस्यार्थभाह--सामादीनिति । पूर्वोक्तान्सामा- दीन्सर्वानुक्तेन क्रमेण ध्यात्वा तदवसाने स्वात्मानमपि संचिन्त्यापेक्षितफलमनुसंदधानः स्वरादिभ्यः प्रमादभकुर्वन्नद्गाता स्तुवीतेति योजना । यत्र कर्मण्ययमुद्गाता यथोक्तरीत्या स्तोता भवति तत्र क्षिप्रमेवास्मै स स कामः समृद्धि गच्छेद्यस्काम: सन्यः स्तुवीतेत्यन्वयः! इतिशब्दः प्रासङ्गिकोपासनसमात्यर्थः ॥ १२ ॥ । इति प्रथमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥ १ क. भ्यासो ह । २ क. ख. ध ङ. च. न. ट. "ता स्वं रू° । ३ ग, ङ. ठ. ह. 'इ. मादिक्रमे । ४ ग, घ, ङ, च. द. ठ, ड. द.त्य का । ५ क. इ. ट. "भ्यास: क्षि। ६ ट, दीति