पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीका संवलितशांकरभाष्यसमेता- [ ८ अष्टमाभ्याये- तदस्मिन्समाहितमिति संबन्धः । मास्तिशब्दस्यात्यन्तासद्विषयावर्तयति नष्ट- मिति ॥ ३ ॥ ४४३ तं चेब्रूयुरस्मि श्वेदिदं ब्रह्मपुरे सर्व५ समाहित सर्वाणि च भूतानि सर्वे च कामा यदेतज्जरा यदे ज वाऽऽमोति प्रध्वसते वा किं ततोऽतिशिष्यत इति ॥ ४ ॥ तं चेदेवमृक्तवन्तं ब्रूयुः पुनरन्तेवासिनोऽस्मिश्चेद्यथोक्तं चेयदि ब्रह्मपुरे ब्रह्म पुरोपलक्षितान्तराकाश इत्यर्थः । इदं सर्व समाहितं सर्वाणि च भूतानि सर्वे च कामाः । कथमाचार्येणानुक्ताः कामा अन्तेवासिभिरुच्यन्ते नैष दोषः । यच्च/स्येहास्ति यच्च नास्तीत्युक्ता एत्र ह्याचार्येण कामाः । अपि च सर्वशब्देन चौक्ता एवं कामाः । यदा यस्मिन्काल एतच्छरीरं ब्रह्मपुराख्यं जरा वैलीप- लितादिलक्षणा वयोहानिर्वैऽऽमोति शस्त्रादिना वा वृक्णं मध्वंसते विस्रंसते विनश्यति किं ततोऽन्यदतिशिष्यते । घटश्रितक्षरद धिस्नेहादिबद्घटना शे देहनाशेऽपि देहाश्रयमुत्तरोत्तरं पूर्वपूर्वनाशा नापतीत्यभिप्रायः । एवं प्राप्ते नाशे किं ततोऽन्यद्यथोक्तादतिशिष्यतेऽवतिष्ठते न किंचनावतिष्ठत इत्यभिप्रायः ॥ ४ ॥ - - आश्रयनाशादाश्रितनाशः स्यादिति न्यायमाश्रिय शङ्कते – तं चेदिति । यद्यस्मि न्सर्वं समाहितं ततो देहनाशे किमवशिष्यत इति संबन्धः । शिष्याणामधिकाबापं दोषमा शङ्कते – कथमिति । शङ्कितं दोषं परिहरति - नैष दोष इति । सर्वं तदस्मिन्समा- हितमियंत्रोक्तेन सर्वशब्देनेति शेषः । शिष्याणामधिकावापं दोषं परिहृत्य प्रकृतं चोद्यं धिवृणोति — यदेत्यादिना । आकाश शिष्यमाणत्वमाशङ्कयाऽऽह – घटेति । ततो यथोक्तो नाशादिति संबन्धः ॥ ४ ॥ स ब्रूपान्नास्य जरयैतज्जीयंति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिन्कामाः समाहिता एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको ३ ठ. ण. १ क. ङ. ज. त. थ. 'देज' । २ ख. व. चञ. ठण. 'क्के हृदि । °न्ति । ४ क. ड. बलिप | ५ क ख ग ङ.. ञ ठ. ड. ण. 'र्वा प्राप्नो' । ३ व. इ. च. ट. ढ. 'तोऽति । ७ ग. व. इ. च. ढ. ढ. ड. ढ ण. 'ढादि । ८ ग. 'त्यत्येन् । ९ ग. कार्दि” ।