पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/४५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् | •विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह प्रजा अन्याविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ५ ॥ प्रथमः खण्डः १ ] ४४३ एवमन्तेवासिभिश्चोदितः स आचार्यो ब्रूयात्तन्मतिमपनयन् । कथम् । अस्य देहस्य जरयैतद्यथोक्तमन्तराकाशाख्यं ब्रह्म यस्मिन्स समाहितं न जीयत देहवन्न विक्रियत इत्यर्थः । न चास्थ बधेन शस्त्रादिघातेनैतद्धन्यते यथाऽऽकाशं किमु ततोऽपि सूक्ष्मतरमशब्दमस्पर्श ब्रह्म देहेन्द्रियादिदोषैर्न स्पृश्यत इत्यर्थः । कथं देहेन्द्रियादिदोपर्ने स्पृश्यत इत्येतस्मिन्नवसरे वक्तव्यं प्राप्तं तत्प्रकृतव्या रुङ्गो मा भूदिति नोच्यते । इन्द्रविरोचनाख्यायिकायामुपरिष्टाद्वक्ष्यामो युक्तितः । एतत्सत्यमवितथं ब्रह्मपुरं ब्रह्मैव पुरं ब्रह्मपुरं शरीराख्यं तु ब्रह्मपुरं ब्रह्मोपलक्षणार्थत्वात् । तत्त्वनृतमेव । “ वाचाऽऽरम्भणं विकारो नामधेयम् " इति श्रुतेः । तद्विकारेऽनृतेऽपि देहशुङ्गे ब्रह्मोपलभ्यत इति ब्रह्मपरमित्युक्तं व्यावहारिकम् । सत्यं तु ब्रह्मपुरमेव ब्रह्म सर्वव्यवहारास्पदत्वात् । अतोऽ- स्मिन्पुण्डरीकोपलक्षिते ब्रह्मपुरे सर्वे कामा ये बहिर्भवद्भिः मार्थ्यन्ते तेऽस्मिन्नेव स्वात्मनि समाहिताः । अतस्तत्मात्युपायमेवानुतिष्ठत वाह्येविषयतृष्णां त्यज- तेत्यभिमायः । एष आत्मा भवतां स्वरूपम् । कया पुन। रीत्या शन्यविषया शिष्यमतिरपनेतव्येति प्रश्नपूर्वकं विवृणोति - कथमि- त्यादिना | देहादिविक्रियया ब्रह्मणो न विक्रि-स्तीत्तकै मुतिकन्यायेन साधयति - न चेति । देहादिषु तादात्म्येन स्थित चेद्ब्रह्म दोपैरसंस्पृष्टमित्ययुक्तमित्याशङ्कयाऽऽह कथमिति । प्रकृंत दहरोपासना तत्र व्यासको विक्षेपः । यदि देहादिदोपैरसंस्पृष्टव्यं ब्रह्मणो नोच्यते चेदते च कचिदुपपद्यन्ते तर्हि तदविवक्षितमेव स्यादित्याशङ्कयाऽऽह- इन्द्रेति । नास्यैत्यादिनोऽक्तेऽर्थे हेतुमाह - - एतदिति । कथं यथोक्तं ब्रह्मणः पुरवितथं स्यादित्याशङ्कयाऽऽह--ब्रह्मेवेति । सत्यशब्द समानाधिकरण्यादुतसमाससिद्धिरित्यर्थः । कथं तर्हि शरीरं ब्रह्मपुरमित्युक्तमत आहे-- -- शरीराख्यं त्विति । तदेव स्फुटयितुं शरी- रस्य मिथ्यात्वं सप्रमाणं दर्शयति- - तत्त्विति । अथ मिथ्याभूतस्यै तस्य कथं ब्रह्मपुरत्व - ग. 'तदस्मि' | २ क. ढ “ह्यकामवि॰ । २ ग. ट. 'स्थितत्वात्तद्दो पै' | ४ ख. घ. छ. ञ. ट. ण. ॰संसृष्ट° | ५ ख. छ. ञ. पण. कृता द° | ६ ख. ञः ण. 'संसृष्ट' 1 एम. जे छ ।८ ख. छ. ञ. ट. ण, 'स्य क° ।